भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द · अध्याय 1

1.1

मेघैः मेदुरम् अम्बरम् वन-भुवः श्यामाः तमाल-द्रुमैः
नक्तम् भीरुः अयम् त्वम् एव तत् इमम् राधे गृहम् प्रापय ।
इत्थम् नन्द-निदेशतः चलितयोः प्रति-अध्व-कुञ्ज-द्रुमम्
राधा-माधवयोः जयन्ति यमुना-कूले रहः-केलयः ॥

1.2

वाक्-देवता-चरित-चित्रित-चित्त-सद्मा
पद्मावती-चरण-चारण-चक्रवर्ती
श्री-वासुदेव-रति-केलि-कथा-समेतम्
एतम् करोति जयदेव-कविः प्रबन्धम् ॥

1.3

वाचः पल्लवयति उमापतिधरः संदर्भ-शुद्धिम् गिराम्
जानीते जयदेवः एव शरणः श्लाघ्यः दुरूह-द्रुते ।
शृङ्गार-उत्तर-सत्-प्रमेय-रचनैः आचार्यगोवर्धन-
स्पर्धी कः अपि न विश्रुतः श्रुतिधरः धोयी कवि-क्ष्मापतिः ॥

1.4

यदि हरि-स्मरणे सरसम् मनः
यदि विलास-कलासु कुतूहलम् ।
मधुर-कोमल-कान्त-पद-आवलीम्
शृणु तदा जयदेव-सरस्वतीम् ॥

1.5

प्रलय-पयोधि-जले धृतवान् असि वेदम्।
विहित-वहित्र-चरित्रम् अखेदम् ॥
केशव धृत-मीन-शरीर
जय जगदीश हरे ॥

1.6

क्षितिः अतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणि-धरण-किण-चक्र-गरिष्ठे ॥
केशव धृत-कच्छप-रूप
जय जगदीश हरे ॥

1.7

वसति दशन-शिखरे धरणी तव लग्ना ।
शशिनि कलङ्क-कला इव निमग्ना ॥
केशव धृत-शूकर-रूप
जय जगदीश हरे ॥

1.8

तव कर-कमल-वरे नखम् अद्भुत-शृङ्गम् ।
दलित-हिरण्यकशिपु-तनु-भृङ्गम् ॥
केशव धृत-नरहरि-रूप
जय जगदीश हरे ॥

1.9

छलयसि विक्रमणे बलिम् अद्भुत-वामन ।
पद-नख-नीर-जनित-जन-पावन ॥
केशव धृत-वामन-रूप
जय जगदीश हरे ॥

1.10

क्षत्रिय-रुधिर-मये जगत् अपगत-पापम् ।
स्नपयसि पयसि शमित-भव-तापम् ॥
केशव धृत-भृगुपति-रूप
जय जगदीश हरे ॥

1.11

वितरसि दिक्षु रणे दिक्पति-कमनीयम् ।
दशमुख-मौलि-बलिम् रमणीयम् ॥
केशव धृत-राम-शरीर
जय जगदीश हरे ॥

1.12

वहसि वपुषि विशदे वसनम् जलद-आभम् ।
हल-हति-भीति-मिलित-यमुना-आभम् ॥
केशव धृत-हलधर-रूप
जय जगदीश हरे ॥

1.13

निन्दसि यज्ञ-विधेः अहह श्रुति-जातम् ।
सदय-हृदय दर्शित-पशु-घातम् ॥
केशव धृत-बुद्ध-शरीर
जय जगदीश हरे ॥

1.14

म्लेच्छ-निवह-निधने कलयसि करवालम् ।
धूम-केतुम् इव किम् अपि करालम् ॥
केशव धृत-कल्कि-शरीर
जय जगदीश हरे ॥

1.15

श्रीजयदेव-कवेः इदम् उदितम् उदारम् ।
शृणु सुखदम् शुभदम् भव-सारम् ॥
केशव धृत-दश-विध-रूप
जय जगदीश हरे ॥

1.16

वेदान् उद्धरते जगत् निवहते भूगोलम् उद्बिभ्रते
दैत्यम् दारयते बलिम् छलयते क्षत्र-क्षयम् कुर्वते ।
पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्च्छयते दश-आकृति-कृते कृष्णाय तुभ्यम् नमः ॥

1.17

श्रित-कमला-कुच-मण्डल धृत-कुण्डल ए ।
कलित-ललित-वन-माल जय जयदेव हरे ॥

1.18

दिन-मणि-मण्डल-मण्डन भव-खण्डन ए ।
मुनि-जन-मानस-हंस जय जयदेव हरे ॥

1.19

कालिय-विष-धर-गञ्जन जन-रञ्जन ए ।
यदु-कुल-नलिन-दिनेश जय जयदेव हरे ॥

1.20

मधु-मुर-नरक-विनाशन गरुड-आसन ए ।
सुर-कुल-केलि-निदान जय जयदेव हरे ॥

1.21

अमल-कमल-दल-लोचन भव-मोचन ए ।
त्रिभुवन-भवन-निधान जय जयदेव हरे ॥

1.22

जनक-सुता-कृत-भूषण जित-दूषण ए ।
समर-शमित-दशकण्ठ जय जयदेव हरे ॥

1.23

अभिनव-जलधर-सुन्दर धृत-मन्दर ए ।
श्री-मुख-चन्द्र-चकोर जय जयदेव हरे ॥

1.24

श्रीजयदेव-कवेः इदम् कुरुते मुदम् ए ।
मङ्गलम् उज्ज्वल-गीतम् जय जयदेव हरे ॥

1.25

पद्मा-पयोधर-तटी-परिरम्भ-लग्न-काश्मीर-मुद्रितम्
उरः मधुसूदनस्य ।
व्यक्त-अनुरागम् इव खेलत्-अनङ्ग-खेद-स्वेद-अम्बु-पूरम्
अनुपूरयतु प्रियम् वः ॥

1.26

वसन्ते वासन्ती-कुसुम-सुकुमारैः अवयवैः
भ्रमन्तीम् कान्तारे बहु-विहित-कृष्ण-अनुसरणाम् ।
अमन्दम् कन्दर्प-ज्वर-जनित-चिन्ता-आकुलतया
वलत्-बाधाम् राधाम् सरसम् इदम् ऊचे सहचरी ॥

1.27

ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे ।
मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.28

उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे ।
अलि-कुल-संकुल-कुसुम-समूह-निराकुल-बकुल-कलापे ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.29

मृगमद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले ।
युव-जन-हृदय-विदारण-मनसिज-नख-रुचि-किंशुक-जाले ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.30

मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकासे ।
मिलित-शिलीमुख-पाटलि-पटल-कृत-स्मर-तूण-विलासे ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.31

विगलित-लज्जित-जगत्-अवलोकन-तरुण-करुण-कृत-हासे ।
विरहि-निकृन्तन-कुन्त-मुख-आकृति-केतक-दन्तुरित-आशे ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.32

माधविका-परिमल-ललिते नवमालिक-जाति-सुगन्धौ ।
मुनि-मनसाम् अपि मोहन-कारिणि तरुण-अकारण-बन्धौ ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.33

स्फुरत्-अतिमुक्त-लता-परिरम्भण-मुकुलित-पुलकित-चूते ।
वृन्दावन-विपिने परिसर-परिगत-यमुना-जल-पूते ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.34

श्रीजयदेव--भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् ।
सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम् ॥
विहरति हरिः इह सरस-वसन्ते
नृत्यति युवति-जनेन समम् सखि विरहि-जनस्य दुरन्ते ॥

1.35

दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग-
प्रकटित-पट-वासैः वासयन् काननानि ।
इह हि दहति चेतः केतकी-गन्ध-बन्धुः
प्रसरत्-असमबाण-प्राणवत्-गन्धवाहः ॥

1.36

उन्मीलत्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूत-अङ्कुर-
क्रीडत्-कोकिल-काकली-कलकलैः उद्गीर्ण-कर्ण-ज्वराः ।
नीयन्ते पथिकैः कथम् कथम् अपि ध्यान-अवधान-क्षण-
प्राप्त-प्राण-समा-समागम-रस-उल्लासैः अमी वासराः ॥

1.37

अनेक-नारी-परिरम्भ-सम्भ्रम-स्फुरत्-मनोहारि-विलास-लालसम् ।
मुरारिम् आरात् उपदर्शयन्ती असौ सखी समक्षम् पुनः आह राधिकाम् ॥

1.38

चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वनमाली ।
केलि-चलत्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.39

पीन-पयोधर-भारेण हरिम् परिरभ्य सरागम् ।
गोप-वधूः अनुगायति काचित् उदञ्चित-पञ्चम-रागम् ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.40

कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् ।
ध्यायति मुग्ध-वधूः अधिकम् मधु-सूदन-वदन-सरोजम् ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.41

कापि कपोल-तले मिलिता लपितुम् किमपि श्रुति-मूले ।
चारु चुचुम्ब नितम्बवती दयितम् पुलकैः अनुकूले ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.42

केलि-कला-कुतुकेन च काचित् अमुम् यमुना-जल-कूले ।
मञ्जुल-वञ्जुल-कुञ्ज-गतम् विचकर्ष करेण दुकूले ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.43

कर-तल-ताल-तरल-वलय-आवलि-कलित-कल-स्वन-वंशे ।
रास-रसे सह-नृत्य-परा हरिणा युवतिः प्रशशंसे ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.44

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मित-चारु-पराम् अपराम् अनुगच्छति वामाम् ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.45

श्रीजयदेव-कवेः इदम् अद्भुत-केशव-केलि-रहस्यम् ।
वृन्दावन-विपिने ललितम् वितनोतु शुभानि यशस्यम् ॥
हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलिपरे ॥

1.46

विश्वेषाम् अनुरञ्जनेन जनयन् आनन्दम् इन्दीवर-
श्रेणी-श्यामल-कोमलैः उपनयन् अङ्ôऐः अनङ्ग-उत्सवम् ।
स्वच्छन्दम् व्रज-सुन्दरीभिः अभितः प्रति-अङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धः हरिः क्रीडति ॥

1.47

अद्य उत्सङ्ग-वसत्-भुजङ्ग-कवल-क्लेशात् इव ईश-अचलम्
प्रालेय-प्लवन-इच्छया अनुसरति श्रीखण्ड-शैल-अनिलः ।
किम् च स्निग्ध-रसाल-मौलि-मुकुलानि आलोक्य हर्ष-उदयात्
उन्मीलन्ति कुहूः कुहूः इति कल-उत्तालाः पिकानाम् गिरः ॥

मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc