घेरण्डसंहिता · अध्याय 7
समाधिश् च परं तत्त्वं बहुभाग्येन लभ्यते
गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः ॥
विद्याप्रतीतिः स्वगुरुप्रतीतिर् $
आत्मप्रतीतिर् मनसः प्रबोधः &
दिने दिने यस्य भवेत् स योगी %
सुशोभनाभ्यासम् उपैति सद्यः ॥
घटाद् भिन्नं मनः कृत्वा ऐक्यं कुर्यात् परात्मनि
समाधिं तं विजानीयान् मुक्तसंज्ञो दशादिभिः ॥
अहं ब्रह्म न चान्यो ऽस्मि ब्रह्मैवाहं न शोकभाक्
सच्चिदानन्दरूपो ऽहं नित्यमुक्तः स्वभाववान् ॥
शांभव्या चैव खेचर्या भ्रामर्या योनिमुद्रया
ध्यानं नादं रसानन्दं लयसिद्धिश् चतुर्विधा ॥
पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा
षड्विधो ऽयं राजयोगः प्रत्येकम् अवधारयेत् ॥
शांभवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षम् आनयेत्
बिन्दु ब्रह्ममयं दृष्ट्वा मनस् तत्र नियोजयेत् ॥
खमध्ये कुरु चात्मानम् आत्ममध्ये च खं कुरु
आत्मानं खमयं दृष्ट्वा न किंचिद् अपि बाध्यते
सदानन्दमयो भूत्वा समाधिस्थो भवेन् नरः ॥
खेचरीमुद्रासाधनाद् रसना ऊर्ध्वगता यदा
तदा समाधिसिद्धिः स्याद् धित्वा साधारणक्रियाम् ॥
अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत्
मन्दं मन्दं रेचयेद् वायुं भृङ्गनादं ततो भवेत् ॥
अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत्
समाधिर् जायते तत्र आनन्दः सो ऽहम् इत्य् अतः ॥
योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत्
सुशृङ्गाररसेनैव विहरेत् परमात्मनि ॥
आनन्दमयः संभूत्वा ऐक्यं ब्रह्मणि संभवेत्
अहं ब्रह्मेति चाद्वैतं समाधिस् तेन जायते ॥
स्वकीयहृदये ध्यायेद् इष्टदेवस्वरूपकम्
चिन्तयेद् भक्तियोगेन परमाह्लादपूर्वकम् ॥
आनन्दाश्रुपुलकेन दशाभावः प्रजायते
समाधिः संभवेत् तेन संभवेच् च मनोन्मनी ॥
मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत्
परात्मनः समायोगात् समाधिं समवाप्नुयात् ॥
इति ते कथितं चण्ड समाधिर् मुक्तिलक्षणम्
राजयोगः समाधिः स्याद् एकात्मन्य् एव साधनम्
उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः ॥
जले विष्णुः स्थले विष्णुर् विष्णुः पर्वतमस्तके
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥
भूचराः खेचराश् चामी यावन्तो जीवजन्तवः
वृक्षगुल्मलतावल्ली तृणाद्या वारि पर्वताः
सर्वं ब्रह्म विजानीयात् सर्वं पश्यति चात्मनि ॥
आत्मा घतस्थचैतन्यम् अद्वैतं शाश्वतं परम्
घटाद् भिन्नतरं ज्ञानं वीतरागं विवासनम् ॥
एवंविधिः समाधिः स्यात् सर्वसंकल्पवर्जितः
स्वदेहे पुत्रदारादि बान्धवेषु धनादिषु
सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात् ॥
लयामृतं परं तत्त्वं शिवोक्तं विविधानि च
तेषां संक्षेपम् आदाय कथितं मुक्तिलक्षणम् ॥
इति ते कथितश् चण्ड समाधिर् दुर्लभः परः
यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले ॥
मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0