गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 21-40
नित्यानन्दम् अहं वन्दे कर्णे लम्बित-मौक्तिकम् ।
चैतन्याग्रज-रूपेण पवित्री-कृत-भूतलम्
निस्तारिताशेष-जनं दयालुं
प्रेमामृताब्धौ परिमग्न-चित्तम् ।
चैतन्य-चन्द्रादृतम् अर्चितं तम्
अद्वैत-चन्द्रं शिरसा नमामि
गदाधर नमस् तुभ्यं यस्य गौराङ्गो जीवनम् ।
नमस् ते श्री-श्रीनिवास-पण्डित प्रेम-विग्रह
एवं क्रमेण गौर-भक्त-गणान् दण्डवत् प्रणमेत् ।
श्री-नवद्वीप-धाम्ने नमः ।
श्री-गङ्गायै नमः ।
श्री-सङ्कीर्तनाय नमः ।
श्री-गौड-मण्डलाय नमः ।
कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे ।
जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे
तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानु-सुते देवि प्रणमामि हरि-प्रिये
श्री-राधिका-प्राण-समां कनीयसीं
विशाखिका-शिक्षित-सौख्य-सौष्ठवाम् ।
लीलामृतेनोच्छलिताङ्ग-माधुरीम्
अनङ्ग-पुर्वां प्रणमामि मञ्जरीम्
ललितादि-परम-प्रेष्ठ-सखी-वृन्देभ्यो नमः ।
कुसुमिकादि-सखी-वृन्देभ्यो नमः ।
कस्तूर्यादि-नित्य-सखी-वृन्देभ्यो नमः ।
शशिमुख्यादि-प्राण-सखी-वृन्देभ्यो नमः ।
कुरङ्गाक्ष्यादि-प्रिय-सखी-वृन्देभ्यो नमः ।
श्री-रूपादि-मञ्जरीभ्यो नमः ।
श्रीदामादि-सखि-वृन्देभ्यो नमः ।
सर्व-गोप-गोपीभ्यो नमः ।
व्रज-वासिभ्यो नमः ।
श्री-वृन्दा-विपिनेभ्यो नमः ।
श्री-रास-मण्डलाय नमः ।
श्री-यमुनायै नमः ।
श्री-राधा-कुण्ड-श्याम-कुण्डाभ्यां नमः ।
श्री-गोवर्धनाय नमः ।
श्री-द्वादश-विपिनेभ्यो नमः ।
श्री-व्रज-मण्डलाय नमः ।
श्री-मथुरा-मण्डलाय नमः ।
सर्वावतारेभ्यो नमः ।
अनन्त-कोटि-वैष्णवेभ्यो नमः ।
वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः
अथ स्नानम् आचरेत् यथा--नद्य् आदौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद् यथा--
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु
महा-पाप-भङ्गे दयालो नु गङ्गे
महेशोत्तमाङ्गे लसच् चित्त-रङ्गे ।
द्रव-ब्रह्म-धामाच्युताङ्घ्र्यब्जजे मा
पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये
विष्णोर् नाभ्य्-अम्बु-मध्याद् वर-कमलम् अभूत् तस्य नाली-सुमेरोर्
मध्ये निःस्यन्दमाना त्वम् असि भगवति ब्रह्म-लोकात् प्रसूता ।
खाद्-भ्रष्टा रुद्र-मूर्ध्नि प्रणिपतित-जला गां गतासीति गङ्गा
कस् त्वां यो नाभिवन्देन् मधु-मथन-हर-ब्रह्म-सम्पर्क-पूताम्
गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि ।
मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति
चिदानन्द-भानोः सदा नन्द-सूनोः
पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।
अघानां लवित्री जगत्-क्षेम-धात्री
पवित्री-क्रियान् नो वपुर् मित्र-पुत्री
राधिका-सम-सौभाग्य सर्व-तीर्थ-प्रवन्दित ।
प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे
ततः शुक्ल-वस्त्रे परिधाय श्री-हरि-मन्दिर-धारणं कृत्वा श्री-हरि-नामाक्षरम् अङ्कयेद् गात्रे--
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।
वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके
श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे ।
पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् ।
तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि
पूर्ववत् स्थिरासने स्थिर-चित्तः तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-श्री-कृष्ण-चैतन्य-देवं गुर्वादि-क्रमेण ध्यात्वा पूजयेत् ।
तत्रादौ श्री-जगन्नाथ-मिश्रस्य मन्दिरं ध्यायेत् ।
यथा चैतन्यार्चन-चन्द्रिकायाम्--
श्री-जगन्नाथ-मिश्रस्य मन्दिराङ्गनम् उत्तमैः ।
नाना-रत्न-मणि-युक्तैर् विचित्र-मन्दिर-पुरम्
तन्-मध्ये रवि-कान्ति-निन्दि-कनक-प्राकार-सतोरशं
श्री-नारायण-गेहम् अग्र-विलसत् संकीर्तन-प्राङ्गणम् ।
लक्ष्म्य्-अन्तःपुर-पाक-भोग-शयन-श्री-चन्द्रशालं पुरं
यद्-गौराङ्ग-हरेर् विभाति सुखदं स्वानन्द-संवृहितम्
तन्-मध्ये नव-चूड-रत्न-कलसं व्रजेन्द्र-रत्नान्तरा*
मुक्ता-दाम-विचित्र-हेम-पटलं सद्-भक्ति-रत्नाचितम् ।
वेद-द्वार-सद्-अष्ट-मृष्ट-मणि-रुट्-शोभा-कवाटान्वितं
सच्-चन्द्रातप-पद्म-राग-विधु-रत्नालम्बियन्-मन्दिरम्
तन्-मध्ये मणि-चित्र-हेम-रचिते मन्त्रार्ण-यन्त्रान्विते
षट्-कोणान्तर-कर्णिकार-शिखर-श्री-केशरैः सन्निभे ।
कूर्माकार-महिष्ठ-योग-महसि श्री-योग-पीठाम्बुजे
राकेशावलि-सूर्य-लक्ष-विमले यद्-भाति सिंहासनम्
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0