गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 1-20
श्रीपाद ध्यान-चन्द्र गोस्वामी
साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा--
स जयति विशुद्ध-विक्रमः
कनकाभः कमलायतेक्षणः ।
वर-जानु-लम्बि-सद्-भुजो
बहुधा भक्ति-रसाभिनर्तकः
श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-*
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर्
मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु
श्री-कान्त कृष्ण करुणामय कञ्जनाभ
कैवल्य-वल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमल-मौक्तिक-हार-लक्ष्मी-
लावण्य-वञ्चन-करीं करवाणि कण्ठे
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् ।
देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे
देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम्
हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते
हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव ।
हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां
हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना
श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते
गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवेन्द्र-चूडामणे
संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः
भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे
वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल ।
कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण
श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय
(पद्यावली 33-38)
समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।
विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे
ततो बहिर् गत्वा मैत्र-कृत्यादि-विधिं कुर्यात्, दन्त-धावनादिम् आचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चल-मनाः -
स्मरेत् श्रीमद् गौर-चन्द्रं स्वर्धुन्या दक्षिणे तटे ।
चिन्तामणि-चित्त-धाम्नि श्री-नवद्वीप-नामके
स्वर्धुन्यां चारु-तीरे स्फुरितम् अतिबृहत्-कुर्म-पृष्ठाभ-गात्रं
रम्यारामावृतं सन्मणि-कनक-महा-सद्म-षण्डैः परीतम् ।
नित्यं प्रत्यालयोद्यत्-प्रणय-भर-लसत्-कृष्ण-संकीर्तनाट्यं
श्री-वृन्दाटव्य् अभिन्नं त्रि-जगद् अनुपमं श्री-नवद्वीपम् ईडे
फुल्लच्-छ्रीमद् द्रुम-वल्ली-तल्लज-लसत्-तीरा तरङ्गावली-
रम्या मन्द-मरुम्-मराल-जलज-श्रेणिषु भृङ्गास्पदम् ।
सद्-रत्नाचित-दिव्य-तीर्थ-निवहा श्री-गौर-पादाम्बुज-
धूलि-धूसरिताङ्ग-भाव-निचिता गङ्गास्ति सम्पावनी
तस्यास् तीर-सुरम्य-हेम-सुरसा-मध्ये लसच् छ्री-नव-
द्वीपो भाति सुमङ्गलो मधु-रिपोर् आनन्द-वन्यो महान् ।
नाना-पुष्प-फलाढ्य-वृक्ष-लतिकारम्यो महत् सेवितो
नाना-वर्ण-विहङ्गमालि-निनदैर् हृत्-कर्ण-हारी हि यः
काण्डं मारकतं प्रभूत-विटपी-शाखा सुवर्णात्मिका
पत्रालिः कुरुविन्द-कोमल-मयी प्रावालिकाः कोरकाः ।
पुष्पाणां निकरः सुहीरक-मयो वैदूर्यकीया फल-
श्रेणी यस्य स को ऽपि शाखि-निकरो यत्रातिमात्रोज्ज्वलः
तन् मध्ये द्विज-भव्य-लोक-निकरागारालि-रम्याङ्गनम्
आरामोपवनालि-विलसद् वेदी-विहारास्पदम् ।
सद्-भक्ति-प्रभया विराजित-महा-भक्तालि-नित्योत्सवं
प्रत्य् आगारम् अघारि-मूर्ति-सुमहद्-भातीह यत् पत्तनम्
एवंभूते श्री-नवद्वीप-मध्ये मनसि निवासं कृत्वा तत्र श्री-गुरुदेवस्य शय्योत्थान-मुख-प्रक्षालन-दन्त-धावनादि-क्रमेण यथा-योग्यं सेवां कुर्यात् सेवानन्तरं ध्यायेत् यथा यामले--
तत्र श्री-गुरु-ध्यानम्--
कृपा-मरन्दान्वित-पाद-पङ्कजं
श्वेताम्बरं गौर-रुचिं सनातनम् ।
शन्दं सुमाल्याभरणं गुणालयं
स्मरामि सद्-भक्तम् अहं गुरुं हरिम्
श्री-गुरु-परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरूणाम् अनुगामित्वेन श्रीमन् महाप्रभोर् मन्दिरं गच्छेत् ।
तत्र तद्-आज्ञया श्री-नवद्वीप-चन्द्रस्य शय्योत्थानं सुवासित-जलेन श्री-मुख-प्रक्षालनादि-क्रमेण सेवां कुर्यात् ।
तत्र श्रीमन् महाप्रभोर् ध्यानं यथा ऊर्द्ध्वाम्नाये (3.15)--
द्वि-भुजं स्वर्ण-रुचिरं वराभय-करं तथा ।
प्रेमालिङ्गन-सम्बद्धं गृणन्तं हरि-नामकम्
अनन्तरं श्री-वृन्दावनं ध्यायेत्--
वृन्दावनं दिव्य-लता-परीतं
लताश् च पुष्प-स्फुरिताग्र-भाजः ।
पुष्पाण्य् अपि स्फीत-मधु-व्रतानि
मधु-व्रताश् श्रुति-हारि-गीताः
मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।
कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे
तत्र सिद्ध-देहेन श्री-राधा-कृष्णयोर् निशान्त-लीलां स्मरेद् यथा--
निशावसाने श्री-राधा-कृष्णौ श्री-वृन्दा-नियुक्त-रसमय-परम-विदग्ध-शुक-शारि-वृन्द-पद्य-पठन-जनित-प्रबोधाव् अपि गाढोपगूहन-सुख-भङ्गाद् असहिष्णुतया क्षणम् अवकाश्यमान-जागरौ तत्-तत्-पद्य-प्रपठित-निशावसान-सातङ्कौ पुष्पमयानन्द-तल्पोत्थितौ स्व-स्व-कुञ्जात् तत्-कालागत-श्रीमल्-ललिता-विशाखादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन सान्तरानन्दौ कक्खट्य्-उदित-जटिला-श्रवणात् स-शङ्कौ सङ्ग-त्याग-भयम्
असहमानौ तौ भीत्योत्कण्ठाकुलौ स्व-स्व-गृहं गच्छतः ।
एवं क्रमेण श्री-गौरचन्द्रस्य श्री-राधा-कृष्णयोर् लीलां स्मरेत् ।
निशान्त-लीला-स्मरणानन्तरं गुर्व्-आदीन् दण्डवत् प्रणमेत् यथा--
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः
इति मन्त्रं पठित्वा श्री-गुरुं दण्डवत् प्रशम्य एवं परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरु-गोस्वामि-चरणान् क्रमेण दण्डवत् प्रणमेत् ।
ततः श्री-गौरचन्द्रं प्रणमेत्--
विश्वम्भराय गौराय चैतन्याय महात्मने ।
शची-पुत्राय मित्राय लक्ष्मीशाय नमो नमः
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0