भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 141-160

141

शुक्रार्णम् अमृतार्णेन
मुख-वृत्तेन संयुतम् ।
गगनं मुख-वृत्तेन
प्रोक्ता शक्तिः परात्परा

142

दशाक्षरो मन्त्रो, यथा --क्लीं गोपीजन-वल्लभाय स्वाहा ।
अष्टादशाक्षरो मन्त्रो, यथा --क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं
श्रीवत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं
गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे

143

अथ काम-गायत्री-मन्त्रोद्धारो यथा स्वायम्भुवागमे--
क्लीं ततः काम-देवाय विद्महे च पदं ततः ।
ततश् च पुष्प-बाणाय धीमहीति पदं ततः

144

ततस् तन् नो ऽनङ्ग इति ततश् चैव प्रचोदयात् ।
एषा वै काम-गायत्री चतुर्विंशाक्षरी माता

145

काम-गायत्री, यथा -क्लीं कामदेवाय विद्महे पुष्प-बाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् ।
क्रीडासक्तो मदन-वश-गो राधयालिङ्गिताङ्गः
स-भ्रू-भङ्गः स्मित-सुवदनो मुग्ध-नेपथ्य-शोभः ।
वृन्दारण्ये प्रति-नव-लता-सद्मसु प्रेम-पूर्णः
पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः

146

यथा बृहद्-गौतमीय-तन्त्रे--
देवी कृष्ण-मयि प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा

147

ऋक्-परिशिष्टे च--
राधया माधवो देवो
माधवेनैव राधिका
विभ्राजन्ते जनेष्व् आ

148

मात्स्ये च--
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने

149

पाद्मे च (उन् 4.5)--
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा

150

(उन् 4.3-4, 6-7)--
महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी ।
गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता

151

ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी ।
तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता

152

सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी ।
धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता

153

तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम् (उन् 4.8)--
कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं
कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् ।
नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ
विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः

154

धृत-षोडश-शृङ्गारा यथा (उन् 4.9)--
स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी
सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।
ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम्

155

द्वादशाभरणाश्रिता यथा (उन् 4.10)--
दिव्यश् चूडामणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि*
निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।
हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-क् प्ता*
स्तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा

156

मध्ये वयसि कैशोर एव तस्याः स्थितिः ।
पूर्ववद् दिवस-गणनया विंशति-दिनोत्तर-पञ्च-मासाधिक-नव-वर्ष-परिमितं मध्य-कैशोरं वयः (9-5-20); राज-कुमारीत्वाद् भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया पञ्च-दश-दिनोत्तर-मास-द्वयाधिक-चतुर्दश-वर्ष परिमितं वयो ऽस्याः ज्ञेयम् (14-2-15) ।
अस्या मदीयता-भावो मधु-स्नेहस् तथैव च ।
मञ्जिष्ठाख्यो भवेद् रागः समर्था केवला रतिः

157

कन्दर्प-कौतुकं कुञ्जं गृहम् अस्यास् तु यावटे ।
मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः

158

अभिमन्युः पतिस् तस्या दुर्मुखो देवरः स्मृतः ।
जटिलाख्या स्मृता श्वश्रूर् ननन्दा कुटिला मता

159

यथा स्युर् नायकावस्था निखिला एव माधवे ।
तथैव नायिकावस्था राधायां प्रायशो मताः

160

(उन् 4.50-54)--
तस्या वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः ।
सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन ।
प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc