भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.41

2.41.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे ऽपमृत्यौ सुखदुः खलाभालाभनिरूपणं नाम चत्वारिंशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 41
श्रीविष्णुरुवाच ।
वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर ।
कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने

2.41.2

विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत् ।
कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च

2.41.3

वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः ।
विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम्

2.41.4

पात्रासादनं श्रपणमुपयमनकुशादिकम् ।
पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु

2.41.5

आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् ।
प्रथमे ऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः)

2.41.6

आघारावाज्यभागौ तु पायसेनाङ्गदेवताः ।
अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय ।
भवाय महादेवायेशानाय यमाय च

2.41.7

पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः ।
उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च

2.41.8

प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः ।
संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम्

2.41.9

पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः ।
षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात्

2.41.10

एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग ।
स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम्

2.41.11

प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात् ।
पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम् ।
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत्

2.41.12

ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि ।
जलमन्नं तथा देयं प्रेतोद्धरणहेतवे

2.41.13

द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक् ।
एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc