भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.40

2.40.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 40
तार्क्ष्य उवाच ।
भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः ।
कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत्

2.40.2

किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् ।
तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन

2.40.3

श्रीकृष्ण उवाच ।
प्रेतीभूताद्विजातीनां सम्भूते मृत्युवैकृते ।
तेषां मार्गगतिस्थानं विधानं कथयाम्यहम्

2.40.4

शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति ।
लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः

2.40.5

कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः

2.40.6

पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् ।
यान्ति ते नरकेघोरे ये च म्लेच्छादिभिर्हताः

2.40.7

श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः ।
उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः

2.40.8

अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः ।
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः

2.40.9

दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः ।
उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः

2.40.10

तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः ।
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम्

2.40.11

न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् ।
तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम्

2.40.12

सर्वलोकहितार्थाय शृणु पापभयापहाम् ।
षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः

2.40.13

सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते ।
गङ्गायां यमुनायाञ्च नैमिषे पुष्करे ऽथ च

2.40.14

तडागे जलूपूर्णे वा ह्रदे वा विमलोदके ।
वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये

2.40.15

कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् ।
प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः

2.40.16

सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि

2.40.17

दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः

2.40.18

अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् ।
तर्पणस्यावसाने च वीतरागो विमत्सरः

2.40.19

जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः ।
दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः

2.40.20

यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु

2.40.21

सर्वकर्मविपाकेन एकैकाग्रे समाहितः ।
तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान्

2.40.22

हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् ।
दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च

2.40.23

वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम्

2.40.24

भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक्

2.40.25

ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः ।
दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः

2.40.26

ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् ।
आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम्

2.40.27

उपयामगृहीतो ऽसि द्वितीयेर्ऽघं निवेदयेत् ।
येनापावकचक्षुषा तृतीये च कसल्पितम्

2.40.28

ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे ।
अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे

2.40.29

यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा ।
तशमे याः फलिनीति पिण्डे चैकादशे ततः

2.40.30

भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् ।
कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परे ऽहनि

2.40.31

विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् ।
विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् ।
अब्यङ्गान्सप्रशस्तांश्च न त् वर्ज्यान्कदाचन

2.40.32

विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा ।
ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत्

2.40.33

सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा ।
शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत्

2.40.34

अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् ।
अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम्

2.40.35

इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् ।
मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः

2.40.36

ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः ।
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः

2.40.37

वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च ।
जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च

2.40.38

पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक्

2.40.39

शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये ऽपि वा ।
तिलोदकं समादाय सर्वौषधिसमन्वितम्

2.40.40

आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः ।
भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम्

2.40.41

ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर

2.40.42

ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् ।
यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम्

2.40.43

सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् ।
यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम्

2.40.44

पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् ।
पलाशस्य च वृन्तानां विभागं शृणु काश्यप

2.40.45

कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तो ऽस्थिसञ्चयः

2.40.46

विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ।
चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत्

2.40.47

विंशत्युरः स्थले दद्याद्विंशतिं जठरे ऽपि च ।
बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम्

2.40.48

ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ।
दद्याच्चतुष्टयं शिश्रे षड् दद्याद् वृषणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत्

2.40.49

नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम्

2.40.50

अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च ।
वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम्

2.40.51

गन्धकं धातवो देयो हरितालं मनः शिला ।
रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा

2.40.52

मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु ।
यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च

2.40.53

केशेषु वै वटजटात्वचि दद्यान्मृगत्वचम् ।
कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः

2.40.54

नासायां शतपत्त्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्

2.40.55

घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम्

2.40.56

कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत्

2.40.57

ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः

2.40.58

सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता ।
साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात्

2.40.59

शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च ।
प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः

2.40.60

विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी

2.40.61

(तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम्

2.40.62

तिलपात्रं ततो दत्त्वा पददानं तथैव च ॥ गर्प्_2,40.61*1 ॥
महादानानि देयानि तिलपात्रं तथेति च ।
ततो वैतरणी देया सर्वाभरणभूषिता

2.40.63

कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् ।
प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च

2.40.64

ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च ।
अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम्

2.40.65

दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये ।
सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc