गरुड़ पुराण · अध्याय 2.31
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नाम त्रिंसो ऽध्यायः
श्रीगरुडमहापुराणम्- 31
श्रीविष्णुरुवाच ।
ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् ।
नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत्
यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः ।
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ
आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् ।
छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि
यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत्
अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते ।
उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः
आश्विने कर्तिके वापि माघे मृततिथावपि ।
चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै
प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः ।
यावत् संवत्सरं वापि प्रेतस्य सुखलिप्सया
कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति ।
ज्योतिर्मयो ऽसौ पूज्यो ऽसौ दीपदानप्रदो नरः
प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये ।
कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम्
सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।
स गच्छति महामार्गे महाकष्टविवर्जितः
आसनं भाजनं भोज्यं दीयते यद्द्विजायते ।
सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि
कमण्डलुप्रदानेन तृषितः पिबते जलम्
भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् ।
एकादशा हे दातव्यं प्रेतोद्धरणहेतवे
त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता ।
दातव्यानि यथाशक्त्या प्रेतो ऽसौ प्रीणितो भवेत्
भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश ।
मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम्
यो ऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् ।
स महिम्नो ऽनुसारेण तत्तत्सुखमुपाश्नुते
नानालोकान् विचरति महिषीञ्च ददाति यः ।
यमपुत्त्रस्य या माता महिषी सुगतिप्रदा
ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् ।
तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते
गो-भू-तिल-हिरण्यानि दानान्याहुः स्वशक्तितः
मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् ।
उदपात्रसहस्रस्य फलमाप्नोति मानवः
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न भीषयन्ति तं याम्या वस्त्रदाने कृते सति
मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः ।
घटान्नदानयोगेन सुखी भवति निश्चितम्
शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता ।
हैमश्रीपतिना युक्ता देया विप्राय शर्मणे ।
तथा प्रेतत्वमुक्तो ऽसौ मोदते सह दैवतैः
एतत् ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् ।
अधुना कथयिष्ये ऽहमन्यदेहप्रवेशनम्
जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।
मृतिः कुर्यात् स्वधर्मेण यास्यतश्च परन्तप
पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर ।
सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात्
नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके ।
पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम्
शरीरञ्च पतेत् पश्चान्निर्गते मरुतीश्वरे ।
वाताहतः पतत्येव निराधारो यथा द्रुमः
पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।
तेजस्तेजसि लीयते समीरणः समीरणे ।
आकाशे च तथा काशः सर्वव्यापी च शङ्करे
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ।
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ।
संहारकश्च कालो ऽयं पुण्यपापसमन्वितः
जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा ।
पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः
पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह ।
प्रविशेत् स नवं देहं गृहे दग्धे यथा गृही
शरीरे ये समासीना सम्भवेत् सर्वधातवः ।
षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः
सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम् ।
मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा
अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते ।
एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम्
कथयामि पुनस्तेषां शरीरञ्च यथा भवेत् ।
एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम्
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ।
विषयैश्च समाक्रान्तं काम-क्रोधसमाकुलम्
राग-द्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम् ।
लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम्
एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम् ।
तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ।
एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम्
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ।
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः
एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0