भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.30

2.30.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिककर्मणि पुत्रदर्भतिलतुलसीगोभूलेपताम्रपात्रदाना दीनामावश्यकत्वनिरूपणं नामैकोनत्रिशो ऽध्यायः
श्रीगरुडमहापुराणम्- 30
श्रीकृष्ण उवाच ।
शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् ।
परमं सर्वदानानां परं गोप्यं दिवौकसाम्

2.30.2

देयमेकं महादानं कार्पासं चोत्तमोत्तमम् ।
येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात्

2.30.3

ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः ।
देयमेतन्महादानं प्रेतोद्धरणहेतवे

2.30.4

चिरं वसेद्रुद्रलोके ततो राजा भवेदिह ।
रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः ।
यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति

2.30.5

गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने ।
तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति

2.30.6

तिला गावो महादानं महापातकनाशनम् ।
तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन

2.30.7

कल्पितं दीयते दानं तिला गावश्चमेदिनी ।
अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन

2.30.8

पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् ।
आतुरे वोपरागे च द्वयं दानं विशिष्यते ।
आतुरे दीयते दानं तत्काले चोपतिष्ठति

2.30.9

जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् ।
सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये

2.30.10

यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् ।
अतो दद्यात् स पुत्रो वा यावज्जीवत्ससौ चिरम् ।
अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः

2.30.11

अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते ।
देहे तथातिवाहस्य परतः प्रीणनं भवेत्

2.30.12

पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने ।
तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम्

2.30.13

तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम्

2.30.14

लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् ।
लवणे दीयमाने तु न भयं विद्यते यमात्

2.30.15

कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् ।
तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात्

2.30.16

हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् ।
हेमभूमिप्रदानाच्च न पीडा नरके भवेत्

2.30.17

सर्वे ऽपि यमदूताश्च यमरूपा विभीषणाः ।
सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः

2.30.18

विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः ।
एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते

2.30.19

तस्मात् पुत्रं प्रशंसन्ति ददाति पितुराज्ञया ।
भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम्

2.30.20

तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् ।
गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः

2.30.21

स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा ।
पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते

2.30.22

किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् ।
अश्वमेधो महायज्ञः कलां नार्हति षोडशीम्

2.30.23

धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते ।
दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि

2.30.24

लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना ।
यमं भीमञ्च नाप्नोति न गच्छेत् तस्य वेश्मनि

2.30.25

कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा ।
एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम्

2.30.26

तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् ।
यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम्

2.30.27

गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा ।
एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम्

2.30.28

छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः ।
शबला श्यामदूता ये लोहदानेन प्रीणिताः

2.30.29

पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा ।
ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते

2.30.30

पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः ।
अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत्

2.30.31

अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयो ऽमराः ।
कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः

2.30.32

पादादूर्ध्वं कटिं यावत् तावद्ब्रह्याधितिष्ठति ।
ग्रीवां यावद्धरिर्नाभेः शरीरे मनुजस्य च

2.30.33

मस्तके तिष्ठतीशानो व्यक्ताव्यक्तो महेश्वरः ।
एकमूर्तेस्त्रयो भागा ब्रह्मा विष्णुहेश्वराः

2.30.34

अहं प्राणः शरीरस्थो भूतग्रामचतुष्टये ।
धर्माधर्मे मतिं दद्यात् सुखदुःखे कृताकृते

2.30.35

जन्तोर्वुद्धिं समास्थाय पूर्वमर्माधिवासिताम् ।
अहमेव तथा जीवान्प्रेरयामि च कर्मसु ।
स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम्

2.30.36

स्वर्गस्थं नरकस्थं वा श्राद्धे वाप्यायनं भवेत् ।
तस्माच्छ्राद्धानि कुर्वीत त्रिविधानि विचक्षणः

2.30.37

मत्स्यं कर्मं च वाराहं नारसिंहञ्च वामनम् ।
रामं रामं च कृष्णं च बुद्धं चैव सकल्किनम् ।
एतानि दश नामानि स्मर्तव्यानि सदा बुधैः

2.30.38

स्वर्गं जीवाः सुखं यान्ति च्युताः स्वर्गाच्च मानवाः ।
लब्ध्वा सुखं च वित्तं च दयादाक्षिण्यसंयुताः ।
पुत्रपौत्रैर्धनैराढ्या जीवेयुः शरदां शतम्

2.30.39

आतुरे च ददेद्दानं विष्णुपूजाञ्च कारयेत् ।
अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरम्

2.30.40

पूजयेच्छुक्लपुष्पैश्च नैवेद्यैर्घृतपाचितैः ।
तथा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः

2.30.41

विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
यत्र विष्णुं न पश्यामि तेन वासेन किं मम

2.30.42

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्

2.30.43

वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः ।
वयं गावो वयं राजा वयं वायुर्वयं प्रजाः

2.30.44

वयं हेम वयं धान्यं वयं मधु वयं घृतम् ।
वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः

2.30.45

अहं दाता अहं ग्राही अहं यज्वा अहं क्रतुः ।
अहं हर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम्

2.30.46

धर्माधर्मे मतिं दद्यां कर्मभिस्तु शुभाशुभैः ।
यत् कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग

2.30.47

धर्मे मतिमहं दद्यामधर्मे ऽप्यहमेव च ।
यातनां कुरुते सो ऽपि धर्मे मुक्तिं ददाम्यहम्

2.30.48

मनुजानां हिता तार्क्ष्य अन्ते वैतरणी स्मृता ।
तयावमत्य पापौघं विष्णुलोकं स गच्छति

2.30.49

बालत्वे यच्च कौमारे यच्च परिणतौ च यत् ।
सर्वावम्थाकृतं पापं यच्च जन्मान्तरेष्वपि

2.30.50

यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः ।
सन्ध्ययोर्यत् कृतं कर्म कर्मणा मनसा गिरा

2.30.51

दत्त्वा वरां सकृदपि कपिलां सर्वकामिकाम् ।
उद्धरेदन्तकाले स आत्मानं पापसञ्चयात्

2.30.52

गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्

2.30.53

या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc