भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.11

2.11.1

इति श्रीगारुडे महापु- उत्तरखण्डे द्वितीदृधर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्वादिनिरूपणं नाम दशमो ऽध्यायः
श्रीगरुडमहापुराणम्- 11
गरुड उवाच ।
मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम् ।
म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित्

2.11.2

इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत् ।
क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति

2.11.3

प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ।
काश्यपो ऽहं सुरश्रेष्ठ विनतागर्भ संभवः ।
यमलोकं कथं यान्ति विष्णुलोकं च मानवाः

2.11.4

श्रीकृष्ण उवाच ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च

2.11.5

अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।
हीनजातौ प्रजायेत रत्नानामपहारकः

2.11.6

यंयं काममभिध्यायेत्स तल्लिङ्गो ऽभिजायते ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः

2.11.7

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
वाक् चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः

2.11.8

अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः ।
आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै

2.11.9

सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै ।
मृताहे वार्षिकं यावद्यथोक्तविधिना खग

2.11.10

कुर्यात्सर्वाणि कर्माणि निर्धनो ऽपि हि मानवः ।
देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम्

2.11.11

मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर ।
मृतः स सुखमाप्नोति मायापाशैर्न बध्यते ।
पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc