भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.10

2.10.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे राजकृतवृषोत्सर्गक्रियादिनिरूपणं नाम नवमो ऽध्यायः
श्रीगरुडमहापुराणम्- 10
गरुड उवाच ।
सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः ।
देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः

2.10.2

तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् ।
यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले

2.10.3

शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् ।
श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम्

2.10.4

श्रीभगवानुवाच ।
प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् ।
देवो यदपि जातो ऽयं मनुष्यः कर्मयोगतः

2.10.5

तस्यान्नममृतं भूत्वा देवत्वे ऽप्यनुयाति च ।
गान्धव्ये भोगरूपेण पशुत्वे च तृणं भवेत्

2.10.6

श्राद्धं हि वायुरूपेण नागत्वे ऽप्यनुगच्छति ।
फलं भवति पक्षित्वे राक्षसेषु तथामिषम्

2.10.7

दानवत्वे तथा मांसं प्रेतत्वेरुधिरं तथा ।
मनुष्यत्वे ऽन्नपानादि बाल्ये भोगरसो भवेत्

2.10.8

गरुड उवाच ।
कथं कव्यानि दत्तानि हव्यानि च जनैरिह ।
गच्छन्ति पितृलोकं वा प्रापकः को ऽत्र गद्यते

2.10.9

मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि ।
निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम्

2.10.10

मृताश्च पुरुषाः स्वामिन् स्वकर्मजनितां गतिम् ।
गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः

2.10.11

श्रीभगवानुवाच ।
श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम् ।
श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता

2.10.12

नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः ।
श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः

2.10.13

अचेतनानि चैतानि प्रापयन्ति कथन्त्विति ।
सुपर्ण नावगन्तव्यं प्रापकं वच्मि ते ऽपरम्

2.10.14

अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः ।
काले न्यायागतं पात्रे विधिना प्रतिपादितम्

2.10.15

अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते ।
नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते

2.10.16

अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति ।
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः

2.10.17

अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै ।
यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन्

2.10.18

अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा ।
नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु

2.10.19

यदाहारा भवन्त्येते पितरो यत्र योनिषु ।
तासुतासु तदाहारः श्राद्धा अवतिष्ठति

2.10.20

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् ।
तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते

2.10.21

पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह ।
एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः

2.10.22

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः

2.10.23

आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा ।
दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम्

2.10.24

हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम्

2.10.25

ब्राह्मणैः सह चाश्रन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम्

2.10.26

निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग ।
प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम्

2.10.27

श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः ।
उदरस्थः पिता तस्य वामपार्श्वे पितामहः

2.10.28

प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः ।
श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात्

2.10.29

विसर्जयति मानुष्ये निरयस्थांश्च काश्यप ।
क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम्

2.10.30

काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।
तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु

2.10.31

गरुड उवाच ।
स्वामिन्केनापि ते दृष्टा आगताः पितरो द्विज ।
लोकादमुष्मादागत्य भुञ्जन्तो भुवि मानद

2.10.32

श्रीभगवानुवाच ।
गरुत्मञ्छृणु वक्ष्यामि यथा दृष्टास्तु सीतया ।
पितरो विप्रदेहे वै श्वशुराद्यास्त्रयः क्वचित्

2.10.33

गृहीत्वा पितुराज्ञां वै रामो वनमुपागमत् ।
ततः पुष्करयात्रार्थं रामो ऽयात्सीतया सह

2.10.34

तीर्थं चापि समागत्य श्राद्धं प्रारब्ध वांस्तु सः ।
फलं पक्वन्तु जानक्या सिद्धं रामे निवेदितम्

2.10.35

स्नातप्रियोक्तवाक्यात्तु सुस्नाता नमपालयत् ।
नभोमध्यगते सूर्ये काले कुतुप आगते

2.10.36

अयाता ऋःषयः सर्वे ये रामेण निमन्त्रिताः ।
तान्मुनीनागतान्दृष्ट्वा वैदेही जनकात्मका

2.10.37

रामाज्ञयान्नमादाय परिवेष्टुमुपागता ।
अपासर्पत्ततो दूरे विप्रमध्ये तु संस्थिता

2.10.38

गुल्मैराच्छाद्य चात्मानं निगूढं सा स्थिता तदा ।
एकान्ते तु तदा सीतां ज्ञात्वा राघवनन्दनः

2.10.39

विमृश्य सुचिरं कालमिदं किमिति सत्वरम् ।
किञ्चित्क्वचिद्गता साध्वी त्रपायाः कारणेन हि

2.10.40

किं वा न भोजयन्विप्रान्सी तामन्वेषयाम्यहम् ।
विमृशन्नेवमेवं स स्वयं विप्रानभोजयत्

2.10.41

गतेषु द्विजमुख्येषु प्रियां रामो ऽब्रवीदिदम् ।
कथं तलासु लीना त्वं मुनीन्दृष्ट्वा समागतान्

2.10.42

तत्सर्वं मम तन्वङ्गि कारणं वद मा चिरम् ।
एवमुक्ता तदा भर्त्रा सीता साधोमुखी स्थिता ।
मुञ्चन्ती चाश्रुसंघातं राघवं वाक्यमब्रवीत्

2.10.43

सीतोवाच ।
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्

2.10.44

पिता तव मया दृष्टो ब्राह्मणाग्रे तु राघवः ।
सर्वाभरणसंयुक्तोद्वौ चान्यौ च तथाविधौ

2.10.45

दृष्ट्वा त्वत्पितरञ्चाहमपक्रान्ता तवान्तिकात् ।
वल्कलाजिनसंवीता कथं राज्ञः पुरः प्रभो

2.10.46

भवामि रिपुवीरघ्न सत्यमेतदुहाहृतम् ।
स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया

2.10.47

दासानामपि ये दासा नोपभुञ्जन्ति कर्हिचित् ।
तृणपात्रे कथं तस्मै अन्नं दातुं हि शक्रुयाम्

2.10.48

याहं राज्ञा पुरा दृष्टा सर्वाभरणभूषिता ।
सा स्वेदमलदिग्धाङ्गी कथं यास्यामि भूपतिम् ।
अपकृष्टास्मि तेनाहं त्रपया रघुनन्दन ।
श्रीभागवानुवाच

2.10.49

इति श्रुत्वा प्रियावाक्यं रामो विस्मितमानसः

2.10.50

आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमत् ।
सीतया पितरो दृष्टा यथा तत्ते निवेदितम्

2.10.51

अपरं श्राद्धमाहात्म्यं किञ्चिच्छृणु समासतः ।
अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः

2.10.52

वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम् ।
यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः

2.10.53

ततश्चास्तं गते सूर्ये निराशा दुः खसंयुताः ।
निः श्वसन्तश्चिरं यान्ति गर्हयन्तस्तु वंशजम्

2.10.54

तस्माच्छ्राद्धं प्रयत्नेन अमायां कर्तुमर्हति ।
यदि श्राद्धं प्रकुर्वन्ति पुत्राद्यास्तस्य बान्धवाः

2.10.55

उद्धृता ये गयाश्राद्धे ब्रह्मलोकञ्च तैः सह ।
भजन्ते क्षुत्पिपासा वा न तेषां जायते क्वचित्

2.10.56

तस्माच्छ्राद्धं प्रयत्नेन सम्यक्कुर्याद्विचक्षणः ।
तस्माच्छ्राद्धं चरेद्भक्त्या शाकैरपि यथाविधि

2.10.57

कुर्वीत समये श्राद्धं कुले कश्चिन्न सीदति ।
आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम्

2.10.58

पशून्सारैव्यं धनं धान्यं प्राप्नुयात्पितृपूजनात् ।
देवकार्यादपि सदा पितृकार्यं विशिष्यते

2.10.59

देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् ।
ये यजन्ति पितॄन्देवान्ब्राह्मणांश्च हुताशनम्

2.10.60

सर्वभूतान्तरात्मानं मामेव हि यजन्ति ते ।
स्मार्तेन विधिना श्राद्धं कृत्वा स्वविभवोचितम्

2.10.61

आब्राह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि

2.10.62

तेन तुप्तिमुपायान्ति ये पिशाचत्वमागताः ।
यच्चाम्बुः स्नानवस्त्रेभ्यो भूमौ पतति खेचर

2.10.63

तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।
यानि गन्धाम्बूनि चैव पतन्ति धरणीतले

2.10.64

तेन चाप्यायनं तेषां ये देवत्वमुपागताः ।
ये चापि स्वकुलाद्बाह्याः क्रियायोग्या ह्यसंस्कृताः

2.10.65

विपन्नास्ते तु विकिरसंमार्जनजलाशिनः ।
भुक्त्वा चाचमनं यच्च जलं यच्चाह्नि सेवितम्

2.10.66

ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै ।
पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये

2.10.67

उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः ।
तैरेवाप्यायनं तेषां ये मनुष्यत्वमागताः

2.10.68

एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम् ।
कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा

2.10.69

तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः ।
भवत्याप्यायनं तेषां सम्यक् श्राद्धे कृते सति

2.10.70

अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः ।
तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु

2.10.71

एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः ।
श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते

2.10.72

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले

2.10.73

पृष्टवानसि तत्ते ऽहं प्रवक्ष्यामि समासतः ।
सद्यो विलम्बतञ्चैवोभयथापि कलेवरम्

2.10.74

यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु ।
अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः

2.10.75

देहमेकं सद्य एव वायवीयं प्रपद्यते ।
यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत्

2.10.76

स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत् ।
एवं देही पूर्वदेहं समुत्सृजति तं यदा

2.10.77

भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः ।
विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम्

2.10.78

निर्व्यापारं तच्च देहे वायुनैव स गच्छति ।
शरीरं यदवाप्नोति तच्चाप्युत्क्वम्यति स्वयम्

2.10.79

गृहीत्वा स्वं विनिर्याति जीवो गर्भ ईवाशयात् ।
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्

2.10.80

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।
आतिवाहिकमित्येवं वायवीयं वदन्ति हि

2.10.81

एवं तु यातुधानानां तमेव च वदन्ति हि ।
सुपर्ण ईदृशो देहो नृणां भवति पिण्डजः

2.10.82

पुत्रादिभिः कृताश्चेत्स्युः पिण्डा दश दशाहिकाः ।
पिण्डजेन तु देहेन वायुजश्चैकतां व्रजेत्

2.10.83

पिण्डजो यदि नैव स्याद्वायुजोर्ऽहति यातनाम् ।
देहिनो ऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय

2.10.84

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही

2.10.85

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

2.10.86

वायवीयां तनुं याति सद्य इत्युक्तमेव ते ।
प्राप्तिर्विलंबतो यस्य तं देहं खलु मे शृणु

2.10.87

क्वचिद्विलंबतो देहं पिण्डजं स समाप्नुयात् ।
अथो गतो याम्यलोकं स्वीयकर्मानुसारतः

2.10.88

चित्रगुप्तस्यवाक्येन निरयाणि भुनक्ति सः ।
यातनाःसमवाप्याथ पशुपक्ष्यादिकीं तनुम्

2.10.89

या गृह्णाति नरः सा स्यान्मोहेन ममतास्पदम् ।
शुभाशुभं कर्मफलं भुक्त्वा मुच्यते मानवः

2.10.90

गरुड उवाच ।
तीर्त्वा दुः खभवाम्भोधिं भवन्तं कथमाप्नुयात् ।
बहुपातकयुक्तो ऽपि तद्वदस्व दयानिधे

2.10.91

भूयो दुः खस्य संसर्गो नरस्य न भवेद्यथा ।
ब्रूहि शुश्रूषमाणस्य पृच्छतो मे रमापते

2.10.92

श्रीकृष्ण उवाच ।
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु

2.10.93

कर्मविभ्रष्टकालुष्यो वासुदेवानुचिन्तया ।
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च

2.10.94

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।
विरक्तसेवी लब्ध्वाशी यतवाक्कायमानसः

2.10.95

ध्यानयोगपरो नित्यं वैरग्यं समुपाश्रितः ।
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्

2.10.96

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।
अतः परं नृणां कृत्यं नास्ति कश्यपनन्दन

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc