भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.99

1.99.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 99
याज्ञवल्क्य उवाच ।
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम् ।
अमावस्याष्टकावृद्धिकृष्णपक्षायनद्वयम्

1.99.2

द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः ।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः

1.99.3

श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ।
अग्नियः सर्वदेवेषु श्रोत्रियो वेदविद्युवा

1.99.4

वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः ।
स्वस्त्रीय ऋत्विगजामातायज्यश्वशुरमातुलाः

1.99.5

त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः ।
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः

1.99.6

पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः ।
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा

1.99.7

अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः ।
अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन

1.99.8

निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः ।
आजान्तांश्चैव पूर्वाह्नेह्यासनेषूपवेशयेत्

1.99.9

युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः ।
द्वौ दैव प्रागुदक् पित्र्ये त्रीण्येकं चोभयोः पृथक्

1.99.10

मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ।
हस्तप्रक्षालनं दत्त्वा विष्टरार्थे कुशानपि

1.99.11

आवाह्य तदनुज्ञातो विश्वदेवासैत्यृचा ।
यवैरन्नं विकीर्याथ भाजने सपवित्रके

1.99.12

शन्नोदेव्या पयः क्षिप्त्वा यवो ऽसीति यवांस्तथा ।
यादिव्या इति मन्त्रेण हस्तेष्वेव विनिः क्षिपेत्

1.99.13

गन्धोदके तथा दीपमाल्यदामप्रदीपकम् ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्

1.99.14

द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनु ज्ञातो जपेदायन्तुनस्ततः

1.99.15

यवार्थस्तु तिलैः कार्यः कुर्यादर्घ्यादि पूर्ववत् ।
दत्त्वार्घ्यं संस्त्रवांस्तेषां पात्रे कृत्वा विधानतः

1.99.16

पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृप्लुतम्

1.99.17

कुरुष्वेति तथोक्तोसौ हुत्वाग्नौ पितृयज्ञवत् ।
हुतशेषं प्रदद्याच्च भाजनेषु समाहितः

1.99.18

यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम्

1.99.19

कृत्वे दंविष्णुरित्येवं द्विजाङ्गुष्ठं निवेशयेत् ।
सव्याहृतिं च गायत्त्रीं मधुवातेत्यृचस्तथा

1.99.20

जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः ।
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोत्वरः

1.99.21

आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ।
अन्नमादाय तृप्ताः स्थः शेषं चैवानुमन्त्र्य च

1.99.22

तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ।
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः

1.99.23

उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात्पितृयज्ञवत् ।
मातामहानामप्यवं दद्यादाचमनं ततः

1.99.24

स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च ।
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत्

1.99.25

वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम् ।
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम्

1.99.26

प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत् ।
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च

1.99.27

श्रद्धा च नो मा व्यगमद्वहु देयं च नो ऽस्त्विति ।
इत्युत्क्रोत्क्रा प्रिया वाचः प्रणिपत्य विसर्जयेत्

1.99.28

वाजेवाजे इति प्रीत्या पितृपूर्वं विसर्जनम् ।
यस्मिंस्ते संस्त्रवाः पूर्वमर्घ्यपात्रे निपातिताः

1.99.29

पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम्

1.99.30

ब्रह्मचारी भवेत्तां तु रजनीं भार्यया मह ।
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखानपि

1.99.31

यजेत्तदधिकर्कन्धूमिश्राः पिण्डा यैवः श्रिताः ।
एकोद्दिष्टं दैवहीनं एकान्नैकपवित्रकम्

1.99.32

आवाहनाग्नौकरणरहितं त्वपसव्यवत् ।
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान्विसर्जयेत्

1.99.33

अभिरण्यतां प्रबूयाद् ब्रुयुस्तेभिरताः स्म ह ।
गन्धो दकतिलैर्मिश्रं कुर्यात्पात्रचतुष्टयम्

1.99.34

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।
येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्

1.99.35

एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।
अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत्

1.99.36

तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ।
पिण्डांश्च गोज विप्रेभ्यो दद्याद्ग्नौ जले ऽपि वा

1.99.37

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः

1.99.38

ऐणरौरववा राहशाशमांसैर्यथाक्रमम् ।
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः

1.99.39

दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः ।
प्रतिपत्प्रभृतिष्वेवं कन्या दीञ्छ्राद्धदो लभेत्

1.99.40

शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते ।
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा

1.99.41

पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम् ।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा

1.99.42

अरोगित्वं यशो वीतशोकतां परमां गतिम् ।
धनं विद्यां च वाक्सिद्धिं कुप्यं गोजाविकं तथा

1.99.43

अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।
कृत्तिकादिभरण्यन्तं स कामान्प्राप्नुयादिमान्

1.99.44

वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः ।
आयुः प्रजा धनं विद्यां स्वर्गमोक्षसुखानि च

1.99.45

प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc