गरुड़ पुराण · अध्याय 1.98
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तद्रव्यशुद्धिनिरूपणं नाम सप्तनवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 98
याज्ञवल्क्य उवाच ।
अथ दानिविधिं वक्ष्ये तन्मे शृणुत सुव्रताः ।
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः
ब्रह्मवेत्ता च तेभ्यो ऽपि पात्रं विद्यात्तपो ऽन्विताः (तम्) ।
गोभूधान्यहिरण्यादि पात्रे दातव्यमर्चितम्
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः
हेमशृङ्गी शफैः रौप्यैः शुशीला वस्त्रसंयुता ।
सकांस्यापात्रा दातव्य क्षीरिणी गौः सदक्षिणा
दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम् ।
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सस्य कीर्त्यते
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा ।
अस्या अपि च दातव्यमपत्यं रोगवर्जितम्
दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान् ।
कषिला चेतारयेत् भूयश्चासप्तमं कुलम्
यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति
यथा कथञ्चिद्दत्त्वा गान्धेनुं वाधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गाप्रदानवत्
द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात् ।
भूदीपांश्चान्नवस्त्राणि सर्पिर्दत्त्वा व्रजेच्छियम्
गृहधान्यच्छत्रमाल्यवृक्षया नघृतं जलम् ।
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् ।
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि चैव हि
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ।
एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः
तस्मात्सर्वप्रयत्नेन कार्यो वेदार्थसंग्रहः ।
इतिहासपुराणं वा लिखित्वा यः प्रयच्छति
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् ।
लोकायतं कुतर्कश्च प्राकृतम्लेच्छभाषितम्
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम् ।
समर्थो यो न गृह्णीयाद्दातृलोकानवाप्नुयात्
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च ।
अयचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः
अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा ।
देवातिथ्यर्चनकृते पितृतृप्त्यर्थमेव च ।
सर्वतः प्रतिगृह्णीयादात्मतृप्सर्थमेव च
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0