भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.100

1.100.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमो ऽध्यायः
श्रागरुडमहापुराणम्- 100
याज्ञवल्क्य उवाच ।
विनायकोपसृष्टस्य लक्षणानि निबोधत ।
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश्च पश्यति

1.100.2

विमना विफलारम्भः संसदित्यनिमित्ततः ।
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी

1.100.3

नाप्नुयात्स्नापनं तस्य पुण्ये ऽह्निविधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु

1.100.4

सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान्

1.100.5

मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत् ।
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात्

1.100.6

चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा ।
सहस्राक्षं शतधारमृषिभिः पावनं स्मृतम्

1.100.7

तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ।
भगं तु वरुणो राजा भगं सूर्यो बृहस्पतिः

1.100.8

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि

1.100.9

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुन्तु ते सदा ।
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु

1.100.10

जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।
मितश्चसमितश्चैव तथा शालकटङ्कटौ

1.100.11

कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः ।
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः

1.100.12

कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि

1.100.13

मूलकं पूरिकापूपं तथैवौण्डेरकस्त्रजः ।
दधि पायसमन्नं च गुडपिष्टं समोदकम्

1.100.14

एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ।
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः

1.100.15

दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः ।
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम्

1.100.16

रूपं देहि यशोदेहि भगं भगवति ! देहि मे ।
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे

1.100.17

ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः ।
वस्त्रयुग्मङ्गुरोर्दद्यासंपूज्य च ग्रहांस्तथा ।
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc