भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.94

1.94.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्ंमनिरूपणं नाम त्रिनवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 94
याज्ञवल्क्य उवाच ।
गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
रज्ञामेकादशे सैके विशामेके यथाकुलम्

1.94.2

उपनीय कुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत्

1.94.3

दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः ।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः

1.94.4

गृहीतशिश्रश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यान्महाव्रतः

1.94.5

अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्

1.94.6

कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्

1.94.7

त्रिः प्राश्यापो द्विरुन्मृज्य खान्याद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिर्हेनाभिः फेनबुहुदैः

1.94.8

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः

1.94.9

स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्त्रयाः प्रत्ययं जपः

1.94.10

गायत्त्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः

1.94.11

प्राणानायम्य सम्प्रोक्ष्य त्र्यृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्त्रीं प्रत्यगातारकोदयात्

1.94.12

सन्ध्यां प्राक् प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि

1.94.13

ततो ऽभिवादयेद्वृद्वानसावहमिति ब्रुवन् ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः

1.94.14

साहूतश्चाप्यधीयीत सर्वं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्रायकर्मभिः

1.94.15

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये

1.94.16

आदिमध्यावसानेषु भवेच्छन्दोपलक्षिता ।
ब्राह्मणक्षत्त्रियविशां भैक्षचर्या यथाक्रमम्

1.94.17

कृताग्निकार्यो भुञ्जीत विनीतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन्

1.94.18

ब्रह्मचार्यास्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्रीयाच्छ्राद्धे व्रतमपडियन्

1.94.19

मधु मांसं तथा स्विन्नमित्यादि परिवर्जयेत् ।
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति

1.94.20

उपनीय ददात्येनामाचार्यः स प्रकीर्तितः ।
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते

1.94.21

एते मान्या यथापूर्वमेभ्यो माता गरीयसी ।
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा

1.94.22

ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ।
आषोडशाऽद्वाविंशाच्चाचतुर्विंशाच्च वत्सरात्

1.94.23

ब्रह्मक्षत्त्रविशां काल औपनायनिकः परः ।
अत ऊर्ध्वं पतन्त्येते सर्वधर्मविवर्जिताः

1.94.24

सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ।
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जबन्धनम्

1.94.25

ब्राह्मणक्षत्त्रिय विशस्तस्मादेते द्विजातयः ।
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम्

1.94.26

वेद एव द्विजातीनां निः श्रेयसकरः परः ।
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः

1.94.27

पितॄन्मधुघृताभ्यां च ऋचो ऽधीते हि सो ऽन्वहम् ।
यजुः साम पठेत्तद्वदथर्वाङ्गिरसं द्विजः

1.94.28

सन्तर्पयेत्पितॄन्देवान्सो ऽन्वहं हि घृतामृतैः ।
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः

1.94.29

इतिहासांस्तथा विद्या यो ऽधीते शक्तितो ऽन्वहम् ।
सन्तर्पयेत्पितॄन्देवान्मांसक्षीरोदनादिभिः

1.94.30

ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यंयं क्रतुमधीतेसौ तस्यस्याप्नुयात्फलम्

1.94.31

भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः ।
नेष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ

1.94.32

तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ।
अनेन विधिना देहे साधयेद्विजितेन्द्रियः ।
ब्रह्मलोकमवाप्नोति न चेह जायते पुनः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc