भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.93

1.93.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 93
महेश्वर उवाच ।
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कयं हरे ! ।
तन्मे काथय केशिघ्न ! यथा तत्त्वेन माधव !

1.93.2

हरिरुवाच ।
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम् ।
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः ।
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः

1.93.3

याज्ञवल्क्य उवाच ।
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ।
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः

1.93.4

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमो ऽङ्गिराः

1.93.5

वसिष्ठदक्षसंवर्तशातातपपराशराः ।
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती

1.93.6

गौतमः शङ्खलिखितो हारीतो ऽत्रिरहं तथा ।
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः

1.93.7

देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम्

1.93.8

इज्याचारो दमो ऽहिंसा दानं स्वाध्यायकर्म च ।
अयं च परमो धर्मो यद्योगेनात्मदर्शनम्

1.93.9

चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा ।
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः

1.93.10

ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः

1.93.11

गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठे ऽष्टमे वा सीमन्तः प्रसवे जातकर्म च

1.93.12

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासि चूडां कुर्याद्यथाकुलम्

1.93.13

एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्ण ईमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc