गरुड़ पुराण · अध्याय 1.92
इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे हरिध्यानं नामैकनवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 92
रुद्रौवाच ।
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर ।
येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः
हरिरुवाच ।
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम् ।
मूर्तामूर्तादिभेदेन तद्ध्यानं द्विविधं हर
अमूर्तं रुद्र कथितं हन्त मूत्त ब्रवीम्यहम् ।
सूर्यकोटिप्रतीकाशो जिष्णुर्भाजिष्णुरेकतः
कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः ।
विशालेन सुसौम्येन शङ्खेन च समन्वितः
सहस्रादित्यतुल्येन ज्वालामालोग्ररूपिणा ।
चक्रेण चान्वितः शान्तो गदाहस्तः शुभाननः
किरीटेन महार्हेण रत्नप्रज्वलितेन च ।
सायुधः सर्वगो देवः सरोरुहधरस्तथा
वनमालाधरः शुभ्रः समांसो हेमभूषणः ।
सुवस्त्रः शुद्धदेहश्च सुकर्णः पद्मसंस्थितः
हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः ।
केयूरेण समायुक्तो वनमालासमन्वितः
श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः ।
अमिमादिगुणैर्युक्तः सृष्टिसंहारकारकः
मुनिध्येयो ऽसुरध्येयो देवध्येयो ऽतिसुन्दरः ।
ब्रह्मादिस्तम्बपर्यन्तभूतजातहृदिस्थितः
सनातनो ऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः ।
नारायणो महादेवः स्फुरन्मकरकुण्डलः
सन्तापनाशनो ऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः ।
सर्वात्मा सर्वरूपश्च सर्वगो ग्रहनाशनः
चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च ।
शरण्यः लसुखकारी च सौम्यरूपो महेश्वरः
सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः ।
सर्वदेवसमायुक्तः सर्वदेवप्रियङ्करः
सर्वलोकहितैषी च सर्वेशः सर्वभावनः ।
आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः
वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः ।
वासुदेवो ऽहमस्मीति आत्मा ध्येयो हरिहरिः
ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम् ।
याज्ञवल्क्यः पुरा ह्येवं ध्यात्वा विष्णुं सुरेश्वरम्
धर्मोपदेशकर्तृत्वं संप्राप्यागात्परं पदम् ।
तस्मात्त्वमपि देवेश ! विष्णुं चिन्तय शङ्कर !
विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0