गरुड़ पुराण · अध्याय 1.91
तस्यां तस्य सुतो जज्ञे महावीर्यो महाद्युतिः ।
श्रीगरुडमहापुराणम्- 91
सूत उवाच ।
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा ।
व्रताचारार्चनाध्यानस्तुतिजप्यपरायणाः
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ।
आकशेन विहीनं वै तेजसा परिवर्जितम्
उदकेन विहीनं वै तद्धर्मपरिवर्जितम् ।
पृथिवीरहितं चैव सर्वभतविवर्जितम्
भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम् ।
चैतन्यरूपतारूपं सर्वाध्यक्षं निरञ्जनम्
मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम् ।
तेजोरूपमसत्त्वं च तपसा परिवर्जितम्
रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः ।
सर्वरूपविहीनं वै कर्तृत्वादिविवर्जितम्
वासनारहितं शुद्धं सर्वदोषविवर्जितम् ।
पिपासावर्जितं तत्तच्छो कमोहविवर्जितम्
जरामरणहीनं वै कूटस्थं मोहवर्जितम् ।
उत्पत्तिरहितं चैव प्रलयेन विवर्जितम्
सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम् ।
जाग्रत्स्वप्नसुषुप्त्यादिवर्जितं नामवर्जितम्
अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम् ।
जाग्रदादिस्थितं नित्यं कार्यकारणवर्जितम्
सर्वदृष्टं तथा मूर्तं सूक्ष्मं सूक्ष्मतरं परम् ।
ज्ञानदृक् श्रोत्रविज्ञानं परमानन्दरूपकम्
विश्वेन रहितं तद्वत्तैजसेन विवर्जितम् ।
प्राज्ञेन रहितञ्चैव तुरीयं परमाक्षरम्
सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च ।
बुद्धिधर्मविहीनं वै निराधारं शिवं हरिम्
विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च ।
वेदरूपं परं भूतमिन्द्रियेभ्यः परं शुभम्
शब्देन वर्जितञ्चैव रसेन च विवर्जितम् ।
स्पर्शेन रहितं देवं रूपमात्रविवर्जितम्
रूपेण रहितं ञ्चैव गन्धेन परिवर्जितम् ।
अनादि ब्रह्म रन्ध्रान्तमहं ब्रह्मास्मि केवलम्
एवं ज्ञात्वा महादेवध्यानं कुर्याज्जितेन्द्रियः ।
ध्यानं यः कुरुते ह्येवं स भवेद्बह्म मानवः
इति ध्यानं समाख्यातमश्विरस्य मया तव ।
अधुना कथयाम्यन्यत्किन्तद्ब्रूहि वृषध्वज
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0