भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.90

1.90.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 90
माक्रण्डेय उवाच ।
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ।
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः

1.90.2

सा चोवाच महात्मानं रुचिं सुमधुराक्षरकम् ।
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः

1.90.3

अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना ।
जाता वरुणपुत्रेण पुष्करेण महात्मना

1.90.4

तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम् ।
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः

1.90.5

मार्कण्डेय उवाच ।
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।
उद्दधार ततः कन्यां मानिनीं नाम नामतः

1.90.6

नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः ।
जग्राह पाणिं विधिवत्समानीय महामुनिः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc