भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.89

1.89.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 89
सूत उवाच ।
पृष्टः क्रैञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम् ।
स तेन पितृवाक्यने भृशमुद्वग्नमानसः

1.89.2

कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् ।
कन्यामलभमानो ऽसौ पितृवाक्येन दीपितः ।
चिन्तामवाप महीतमतीवोद्वग्नमानसः

1.89.3

किं करोमि क्र गच्छामि कथं मे दारसंग्रहः ।
क्षिप्रं भवेन्मत्पितॄणां ममाभ्युदयकारकः

1.89.4

इति चिन्तयतस्तस्यमतिर्जाता महात्मनः ।
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम्

1.89.5

ततो वर्षशतं दिव्यं तपस्तेपे महामनाः ।
तत्र स्थितश्चिरं कालं वनेषु नियमस्थितः ।
आराधनाय स तदा परं नियममास्थितः

1.89.6

ततः प्रदर्शयामास ब्रह्मा लोकपितामहः ।
उवाचाथ प्रसन्नो ऽस्मीत्युच्यतामभिवाञ्छितम्

1.89.7

ततो ऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् ।
पितॄणां वचनात्तेन यत्कर्तुमभिवाञ्छितम्

1.89.8

ब्रह्मोवाच ।
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः ।
सृष्ट्वा प्रजाः सुतान्विप्र समुत्पाद्य क्रियास्तथा

1.89.9

कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्यसि ।
सत्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम्

1.89.10

कामं चेममभिध्याय क्रियतां पितृपूजनम् ।
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् ।
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः

1.89.11

मार्कण्डेय उवाच ।
इत्यृषिर्वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः ।
नद्या विविक्ते पुलिने चकार पितृतर्पणम्

1.89.12

तुष्टाव च पितॄन्विप्रः स्तवैरेभिरथादृतः ।
एकाग्रप्रयतो भूत्वा भक्तिनम्रात्मकन्धरः

1.89.13

रुचिरुवाच ।
नमस्ये ऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् ।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः

1.89.14

नमस्ये ऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः

1.89.15

नमस्ये ऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः

1.89.16

नमस्ये ऽहं पितॄन् भक्त्या येर्ऽच्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाधद्भिः ऋद्धिमात्यन्तिकीं पराम्

1.89.17

नमस्ये ऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः

1.89.18

नमस्ये ऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः

1.89.19

नमस्ये ऽहं पितॄन्ये वै तर्प्यन्ते ऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः

1.89.20

नमस्ये ऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः

1.89.21

नमस्ये ऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैविधिवल्लोकद्वयफलप्रदान्

1.89.22

नमस्ये ऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः

1.89.23

नमस्ये ऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः

1.89.24

नमस्ये ऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा

1.89.25

नमस्ये ऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः

1.89.26

नमस्ये ऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः

1.89.27

पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोके ऽथ महीतले वा ।
तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम्

1.89.28

पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून्

1.89.29

पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा ये ऽनभिसंहितेषु

1.89.30

तृप्यन्तु ते ऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितो ऽधिकं वा गजाश्वरत्नानि महागृहाणि

1.89.31

सोमस्य ये रश्मिषु येर्ऽकबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु ते ऽस्मिन्पितरो ऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु

1.89.32

येषां हुते ऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु ते ऽस्मिन्पितरो ऽन्नतोयैः

1.89.33

ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु

1.89.34

कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु

1.89.35

दिनेदिने ये प्रतिगृह्णतेर्ऽचां मासान्तपूज्या भुवि ये ऽष्टकासु ।
ये वत्सरान्ते ऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरो ऽत्र तुष्टिम्

1.89.36

पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्त्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च

1.89.37

ते ऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतो ऽस्मि तेभ्यः

1.89.38

ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु ते ऽस्मिन्प्रणतो ऽस्मि तेभ्यः

1.89.39

रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु ते ऽस्मिन्प्रणतो ऽस्मितेभ्यः

1.89.40

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धे ऽस्मिन्पितरस्तर्पिता मया

1.89.41

अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः

1.89.42

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः

1.89.43

विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव

1.89.44

कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः

1.89.45

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः

1.89.46

महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः

1.89.47

सुखदो धनदश्चान्यो धर्मदो ऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम्

1.89.48

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात्

1.89.49

माक्रण्डेय उवाच ।
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः

1.89.50

तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ

1.89.51

रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्

1.89.52

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षोणां तथान्येषां तान्नमस्यामि कामदान्

1.89.53

मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि

1.89.54

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः

1.89.55

प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः

1.89.56

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे

1.89.57

सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम्

1.89.58

अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः

1.89.59

ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः

1.89.60

तेभ्यो ऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमोनमो नमस्ते ऽस्तु प्रसीदन्तु स्वधाभुजः

1.89.61

माक्रण्डेय उवाच ।
एवं स्तुतास्ततस्तेन तजसो मुनिसत्तमाः ।
निश्चक्रमुस्ते पितरो भासयन्तो दिशादश

1.89.62

निवेदनञ्च यत्तेन पुष्पगन्धानुलेपनम् ।
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान्

1.89.63

प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः ।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः

1.89.64

ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।
वरं वृणीष्वेति स तानुवाचानतकन्धरः

1.89.65

रुचिरुवाच ।
प्रजानां सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम ।
सो ऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम्

1.89.66

पितर ऊचुः ।
अत्रैव सद्यः पत्नी ते भवत्वतिमनोरमा ।
तस्याञ्च पुत्रो भविता भवतो मुनिसत्तम !

1.89.67

मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः ।
रुचे ! रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये

1.89.68

तस्यापि बहवः पुत्रा महाबलपराक्रमाः ।
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः

1.89.69

त्वं च प्रिजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।
क्षीणाधिकारो धर्मज्ञस्ततः सिद्धिमवाप्स्यसि

1.89.70

स्तोत्रेणानेन च नरो यो ऽस्मांस्तोष्यति भक्तितः ।
तस्य तुष्टा वयं भोगानात्मजं ध्यानमुत्तमम्

1.89.71

आयुरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः

1.89.72

श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीतिकरं स्तवम् ।
पठिष्यति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः

1.89.73

स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम्

1.89.74

यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ।
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा

1.89.75

अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः ।
अकाले ऽप्यथ वा देशे विधिहीनमथापि वा

1.89.76

अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य यत्कृतम् ।
अस्माकं तृप्तये श्राद्धन्तथाप्येतदुदीरणात्

1.89.77

यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्तत्सुखावहम् ।
अस्माकं जायते तृप्तिस्तत्र द्वादशावर्षिकी

1.89.78

हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति ।
शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं शुभम्

1.89.79

वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि ।
ग्रीष्मे च षोडशैवैतत्पठितं तृप्तिकारकम्

1.89.80

विकले ऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते ।
वर्षासु तृप्तिरस्माकमक्षय्या जायते रुचे

1.89.81

शरत्काले ऽपि पठितं श्राद्धकाले प्रयच्छति ।
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम्

1.89.82

यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा ।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति

1.89.83

तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः ।
श्रावणीयं महाभाग अस्माकं पुष्टिकारकम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc