गरुड़ पुराण · अध्याय 1.9
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमो ऽध्यायः
श्रीगरुडमहापुराणम्- 9
हरिरुवाच ।
समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा ।
अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत्
द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम् ।
निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम्
गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः ।
अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम्
उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत् ।
वायव्या कलया रुद्र शोष्यमाणान्विचिन्तयेत्
आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः ।
तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत्
प्राणवं चिन्तयेव्द्योम्नि शरीरे ऽन्यत्तु कारणम् ।
एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात्
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज ।
मण्डलादिष्वशक्तस्तु कल्पयित्वार्ऽचयेद्धरिम्
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् ।
हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः
कर्णिका तलहस्तन्तु नखान्यस्य तु केसराः ।
तत्रार्चयेद्धरिं ध्यात्वा सूर्यन्द्वग्नयन्तरेव च
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः ।
हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम् ।
नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा ।
देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः ।
पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः
तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम् ।
शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0