भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.8

1.8.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यादीनां सरस्वत्याश्च पूजनं नाम सप्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 8
हरिरुवाच ।
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् ।
पञ्चरङ्गिकचूर्णेन वज्रनाभं तु मण्डलम्

1.8.2

षोडशैः कोष्ठकैस्तत्र संमितं रुद्र? कारयेत् ।
चतुर्थपञ्चकोणेषु सूत्रपातं तु कारयेत्

1.8.3

कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः ।
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः

1.8.4

तदनन्तरकोणेषु एवमेव हि कारयेत् ।
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे

1.8.5

अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः ।
पूर्वमध्यमनाभि भ्यामथं सूत्रं तु भ्रामयेत्

1.8.6

अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर ! ।
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव !

1.8.7

कर्णिकाया द्विभागेन केसराणि विचक्षणः ।
तदग्रेण सदा विद्वान्दलान्येव समालिखेत्

1.8.8

सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत ! ।
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित्

1.8.9

आदिसूत्रविभागेन द्वाराणि परिकल्पयेत् ।
द्वारशोभां तथा तत्र तदर्धेन तु कल्पयेत्

1.8.10

कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः ।
अन्तरं नीलवर्णेन दलानि असितेन च

1.8.11

कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत् ।
द्वाराणि शुक्लवर्णेन रेखाः पञ्च च मण्डले

1.8.12

सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम्

1.8.13

हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा ।
प्रद्युम्नं शिरसि न्यस्य शिखायामनिरुद्धकम्

1.8.14

ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा ।
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम्

1.8.15

न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे ।
अनिरुद्धं पश्चिमे च ब्रिह्माणं चोत्तरे न्यसेत्

1.8.16

श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत् ।
ततो ऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc