गरुड़ पुराण · अध्याय 1.10
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिदृ नाम नवमो ऽध्यायः
श्रीगरुडमहापुराणम्- 10
हरिरुवाच ।
र् श्यादिपूजां प्रवर्श्यामि स्थण्डिलादिषु सिद्धये ।
श्रीं ह्रीं महालक्ष्म्यै नमः ।
श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् ।
कवचं नेत्रमस्त्रं च आसनं मूर्तिमर्चयेत्
मण्डले पद्मगर्भे च चतुर्द्वारि रजो ऽन्विते ।
चतुः षष्ट्यन्तमष्टादि खाक्षे खाक्ष्यादि मण्डलम्
खाक्षीन्दुसूर्यगं सर्वं खादिवेदेन्दुवर्तनात् ।
लक्ष्मीमङ्गानि चैकस्मिन्कोणे दुर्गां गणं गुरुम्
क्षेत्रपालमथाग्न्यादौ होमाञ्जुहाव कामभाक् ।
ओं घं टं डं हं श्रीमहालक्ष्म्यै नमः
अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः ।
ओं सैं सरस्वत्यै नमः ।
ओं ह्रीं सैं सरस्वत्यै नमः
ओं ह्रीं वदवदवाग्वादिनिस्वाहा ओं ह्रीं सरस्वत्यै नमः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0