भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.88

1.88.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 88
सूत उवाच ।
हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च ।
मार्कण्डेयः पितृस्तो त्रं क्रौञ्चुकिं प्राह तच्छृणु

1.88.2

मार्कण्डेय उवाच ।
रुचिः प्रजापतिः पूर्वं निर्ममो निरहङ्कृतिः ।
अत्रस्तो ऽमितमायी च चचार पृथिवीमिमाम्

1.88.3

अनग्निमनिकेतं तमेकाहारमनाश्रमम् ।
निमुक्तसंगं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम्

1.88.4

पितर ऊचुः ।
वत्स कस्मात्त्वया पुण्यो न कृतो दार संग्रहः ।
स्वर्गापवर्गहे (से)तुत्वाद्वन्धस्तेनानिशं (निमिषं) विना

1.88.5

गृही समस्तदेवानां पितॄणां च तथार्हणम् ।
ऋषीणामर्थिनां चैव कुर्वल्लो कानवाप्नुयात्

1.88.6

स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितन् ।
विभजत्यन्नदानेन भृत्याद्यानतिथीनपि

1.88.7

स त्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि ।
अवाप्तो ऽसि मनुष्यर्षे भूतेभ्यश्च दिनेदिने

1.88.8

अनत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा ।
अकृत्वा च कथं माण्ड्यं स्वर्गतिं प्राप्तुमिच्छसि

1.88.9

क्लेशबोधैककं पुत्र अन्यायेन भवेत्तव ।
मृतस्य नरकं त्यक्त्वा क्लेश एवान्यजन्मनि

1.88.10

रुचिरुवाच ।
परिग्रहो ऽतिदुः खाय पापाया धोगतेस्तथा ।
भवत्यतो मया पूर्वंन कृतो दारसंग्रहः

1.88.11

आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात् ।
स्वमुक्तिहेतुर्न भवत्यसावपि परिग्रहात्

1.88.12

प्रक्षाल्यते ऽनुदिवसं य आत्मा निष्परिग्रहः ।
मम त्वपङ्कदिग्धो ऽपि विद्याम्भोभिर्वरं हि तत्

1.88.13

अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः ।
आत्मा तत्त्वज्ञानतोयैः प्रक्षाल्यो नियतेन्द्रियैः

1.88.14

पितर ऊचुः ।
युक्तं प्रक्षालनं कर्तुमात्मनो ऽपि यतेन्द्रियैः ।
किं तु नोपायमार्गो ऽयं यतस्त्वं पुत्र वर्तसे

1.88.15

पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव ।
फलाभिसन्धिरहितैः पूर्वकम शुभाशुभैः

1.88.16

एवं न बन्धो भवति कुर्वतः कारणात्मकम् ।
न च बन्धाय तत्कर्म भवत्यनतिसन्निभम्

1.88.17

पूर्वकर्म कृतं बोगैः क्षीयते ह्यनिशन्तथा ।
सुखदुः खात्मकैर्वत्स पुण्या पुण्यात्मकं नृणाम्

1.88.18

एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते ।
रक्ष्यश्च स्वविवेकैर्न पापपङ्केन दह्यते

1.88.19

रुचिरुवाच ।
अविद्या पच्यते वेदे कर्ममार्गात्पितामहाः ।
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम्

1.88.20

पितर उचुः ।
अविद्या सर्वमेवैतत्कर्मणैतन्मृषा वचः ।
किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः

1.88.21

विहिताकरणानर्थो न सद्भिः क्रियते तु यः ।
संयमो मुक्तये यो ऽन्यः प्रत्युताधोगतिप्रदः

1.88.22

प्रक्षालयामीति भवान्यदेतन्मन्यते वरम् ।
विहिताकरणोद्भूतैः पापैस्त्वमपि दह्यसे

1.88.23

अविद्याप्युपकाराय विषवज्जायते नृणाम् ।
अनुष्ठाना भ्युपायेन बन्धयोग्यापि नो हि सा

1.88.24

तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् ।
आजन्म विफलन्ते ऽस्तु असम्प्राप्यान्यलौकिकम्

1.88.25

रुचिरुवाच ।
वृद्धो ऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति ।
भार्यान्तथा दरिद्रस्य दुष्करो दारसंग्रहः

1.88.26

पितर ऊचुः ।
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः ।
नूनं भावि भवित्री च नाभिनन्दसि नो वचः

1.88.27

इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम ।
बभूवुः सहसादृश्या दीपा वातहता इव

1.88.28

मुनिः क्रैञ्चुकये प्राह मार्कण्डेयो महातपाः ।
रुचिवृत्तान्तमखिलं पितृसंवादलक्षणम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc