गरुड़ पुराण · अध्याय 1.87
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमो ऽध्यायः
(इति गयामाहात्म्यं समाप्तम्) ।
श्रीगरुडमहापुराणम्- 87
हरिरुवाच ।
चतुर्दश मनून्वक्ष्ये तत्सुताश्च सुकादिकान् ।
मनुः स्वायम्भुवः पूर्वमग्निघ्राद्याश्च तत्सुताः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजा ऋषयः सप्तकीर्तिताः
जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च ।
गणा द्वादशकाश्चैति चत्वारः सोमपायिनः
विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत् ।
स हतो विष्णुना दैत्यश्चक्रेण सुमहात्मना
मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः ।
चित्रको विनतश्चैव कर्णान्तो विद्युतो रविः
बृहद्गुणो नभश्चैव महाबलपराक्रमः ।
ऊर्ज स्तम्बस्तथा प्राण ऋषभो निश्चल (र) स्तथा
दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्तिताः ।
तुषिता द्वादश प्रोक्तास्तथा पारावताश्च ये
इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः ।
जघान हस्तिरूपेण भगवान्मधुसूदनः
औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा ।
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः
देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा ।
रथौजा ऊर्ध्वबाहुश्च शरणश्चानघो मुनिः
सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्तिताः ।
वशवर्तिस्वधामानः शिवाः सत्याः प्रतर्दनाः
पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते ।
इन्द्रः स्वशान्तिस्तच्छुक्रः प्रलम्बो नाम दानवः
मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम् ।
तामसस्य मनोः पुत्रा जानुजङ्घो ऽथ निर्भयः
नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः ।
दृढेषुधिः प्रस्तलाक्षः कृबन्धुः कृतस्तथा
ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ) ।
मुनयः कीर्तिताः सप्त सुरागाः सुधियस्तथा
हरयो देवतामां च चत्वारः पञ्च (सप्त) विंशकाः ।
गणा इन्द्रः शिविस्तस्य शत्रुर्भोमरथाः स्मृताः
हरिणा कूर्मरूपेण हतो भीमरथो ऽसुरः ।
रैवतस्य मनोः पुत्रो महा प्राणश्च साधकः
वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः ।
दृढव्रतः केतुशृगं ऋषयस्तस्य वर्ण्यते
वेदश्रीर्वेदबाहुश्च ऊर्ध्वबाहुस्तथैव च ।
हिरण्यरोमा पर्जन्यः सत्यनेत्रः (नामा) स्वधाम च
अभूतरजसश्चैव तथा देवाश्वमेधसः ।
वैकुण्ठ (ण्ठाः श्चामृत (ता) श्चैव चत्वारो देवतागणाः
गणे चतुर्दश सुरा विभुरिद्रः प्रतापवान् ।
शान्तः शत्रुर्हतो दैत्यो हंसरूपेण विष्णुना
चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः ।
शतद्युम्नस्तपस्वी च सत्यबाहुः(क्यो) कृतिस्तथा
अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः ।
हविष्मानुत्तमः श्रीमान्स्व (सु) धामा विरजस्तथा
अभिमानः सहिष्णुश्च मधुश्रीरृषयः स्मृताः ।
आर्याः प्रभूता भाव्याश्च लेखाश्च पृथुकास्तथा
अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम् ।
इन्द्रो मनोजवः शत्रुर्महाकालो महाभजः
अश्वरूपेण स हतो हरिणा लोकधारिणा ।
मनोर्वैवस्वतस्येते पुत्रा विष्णुपरायणाः
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ।
नरिष्यन्तस्तथा पांसुर्नभो नेदिष्ठ एव च
करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः ।
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः
गौतमश्च भरद्वाजो विशामित्रो ऽथ सप्तमः ।
तथा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः
आदित्या वसवः साध्यागणा द्वादशकास्त्रयः ।
एकादशा तथा रुद्रा वसवो ऽष्टौ प्रकीर्तिताः
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा ।
दशौवाङ्गिरसो देवा नव देवगणास्तथा
तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः ।
हतो वराहरूपेण हरिण्याख्यो ऽथ विष्णुना
वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान् ।
विजयश्चार्ववीरश्च निर्मोहः सत्यवाक्रृती
वरिष्ठश्च गरिष्ठश्च वाचः संगतिरेव च ।
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ
ऋष्यशृङ्गस्तथा राम ऋषयः सप्त कीर्तिताः ।
सुतपा अमृताभाश्च मुख्याश्चापि तथा सुराः
तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।
ऋद्धिमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति
वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु ।
धृतिकेतुर्देप्तिकेतुः पञ्चहस्तो निरामयः ।
पृतुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः
मेधातिथिर्द्युतिश्चैव सवसो वसुरेव च ।
ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः
परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः ।
देशशत्रु) कालकाक्षस्तद्धन्ता पद्मनाभकः
भविष्यन्ति तदा देवा एकैको द्वादशो गणः ।
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो हर ॥ गर्प्_1,87.40*1 ॥
धमपुत्रस्य पुत्रांस्तु दश मस्य मनोः शृणु ।
सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्यवान्
शतानीको निरमित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च शान्तिरिन्द्रः प्रतापवान्
अयो (पो) मूर्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा ।
नाभागो ऽप्रतिमौजाश्च सौरभ ऋषयस्तथा
प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा ।
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति
रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ।
सर्वत्रगः सुशर्मा च देवानीकः पुरुर्गुरुः
क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा ।
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्तिताः ।
विहङ्गमाः कामगम् निर्माणरुचयस्तथा
एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः ।
धसग्रीवो रिपुस्तस्य श्रीरूपी घातयिष्यति
मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ।
देववानु पदेवश्च देवश्रेष्ठो विदूरथः
मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्यवान् ।
मित्रवाहः प्रवाहश्च दक्षपुत्रमनोः सुताः
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमश्च तपोधनाः
स्वधर्माणः सुतपसो हरितो होहितास्तथा ।
सुरारयो गणाश्चैते प्रत्येकं दशको गणः
ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः ।
हरिर्नपुंसकं भूत्वा घातयिष्यति शङ्कर
त्रयोदशस्य रौच्यस्य मनोः पुत्रान्निबोध मे ।
चित्रसेनो विचित्रश्च तपोधर्मरतो धृतिः
सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः ।
धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः
निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्तिताः ।
स्व (सु) रोमाणः स्व (सु) धर्माणः स्व (सु) कर्माणस्तथामराः
त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः ।
इन्द्रो दिवस्पतिः शत्रुस्त्विष्टिभो नाम दानवः
मायूरेण च रूपेण घातयिष्यति माधवः ।
चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम
उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च ।
अभिमानि प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ।
तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः
अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः ।
अजितो मुक्तशुक्रौ च ऋषयः सप्त कीर्तिताः
चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा ।
वचोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः
शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम् ।
एको देवश्चतुर्धा तु व्यासरूपेण विष्णुना
कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु ।
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः
पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम् ।
धनुर्वेदश्च गान्धर्वो विद्या ह्यष्टादशैव ताः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0