भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.86

1.86.1

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 86
ब्रह्मोवाच ।
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि

1.86.2

धर्मेण धारिता भूत्यै सर्वदेवमयी शिला ।
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः

1.86.3

तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा ।
अतो ऽत्र मुनयो भूपा राजपत्न्यादयः सदा

1.86.4

तस्यां शिलायां श्राद्धादिकर्तारो ब्रह्मलोकगाः ।
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः

1.86.5

मुणाडपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् ।
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः

1.86.6

अरविन्दवनं तेषु तेन चैवोपलक्षितः ।
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः

1.86.7

तस्मा द्गिरिः क्रैञ्चपादः पितॄणां ब्रह्मलोकदः ।
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः

1.86.8

शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला ।
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला

1.86.9

कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः ।
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः

1.86.10

धर्म संरक्षणार्थाय अधर्मादिविनष्टये ।
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत्

1.86.11

कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः ।
यथा दाशरथी रामः कृष्णोबुद्धो ऽथ कल्क्यपि

1.86.12

तथा व्यक्तो ऽव्यक्तरूपी आसीदादिर्गदाधरः ।
आदिरादौ पूजितो ऽत्र देवैर्ब्रह्मादिभिर्यतः

1.86.13

पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः ।
गदाधरं सुरैः सार्धमाद्यं गत्वा ददाति यः

1.86.14

अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् ।
दीपं नैवैद्यमुत्कष्टं माल्यानि विविधानि च

1.86.15

वस्त्राणि मुकुटं घण्टा चामरं प्रेक्षणीयकम् ।
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा

1.86.16

तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः ।
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः

1.86.17

भार्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् ।
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः

1.86.18

वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् ।
श्राद्धपिण्डादिकर्तारः पितृभिर्ब्रह्मलोकगाः

1.86.19

जगन्नाथं ये ऽप्चयन्ति सुभद्रां बलभद्रकम् ।
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम्

1.86.20

पुरुषोत्तमराजस्य सूर्यस्य च गणस्य च ।
पुरतस्तत्र पिण्डादि पितॄणां ब्रिह्मलोकदः

1.86.21

नत्वा कपर्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते ।
कार्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात्

1.86.22

द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते ।
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात्

1.86.23

रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् ।
अभ्यर्च्येन्द्रं महैश्वर्यं गौरीं सौभाग्यमाप्नुयात्

1.86.24

विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम् ।
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते

1.86.25

क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते ।
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात्

1.86.26

नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते ।
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात्

1.86.27

बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् ।
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात्

1.86.28

सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम् ।
नारायणं तु संपूज्य नराणामधिपो भवेत्

1.86.29

स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् ।
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात्

1.86.30

मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् ।
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम्

1.86.31

सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात् ।
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते

1.86.32

रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् ।
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते

1.86.33

कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत् ।
केदारं पूजयित्वा तु शिवलोके महीयते

1.86.34

सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत् ।
आद्यै रुद्रादिभिः सार्धं दृष्ट्वा ह्यादिगदाधरम्

1.86.35

कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः ।
धर्मार्थो प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात्

1.86.36

कामान्संप्राप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात् ।
राज्यार्थो राज्यमाप्नोति शान्त्यर्थो शान्तिमाप्नुयात्

1.86.37

सर्वार्थो सर्वमाप्नोति संपूज्यादिगदाधरम् ।
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी

1.86.38

वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् ।
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः

1.86.39

ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम् ।
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी

1.86.40

तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः ।
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc