भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.85

1.85.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 85
ब्रह्मोवाच ।
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ।
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्

1.85.2

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः

1.85.3

पितवंशे मृता ये च मातृवंशे च ये मृताः ।
तषामुद्धरणार्थाये इमं पिण्डे ददाम्यहम्

1.85.4

मातामहकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्

1.85.5

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्

1.85.6

बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः ।
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्

1.85.7

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम्

1.85.8

अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये ।
दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम्

1.85.9

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ।
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम्

1.85.10

रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्

1.85.11

असिपत्रवने घोरे कंभीपाके च ये गताः ।
तेषामुद्धरणार्थाय इं पिण्डं ददाम्यहम्

1.85.12

अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् ।
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्

1.85.13

पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम्

1.85.14

असंख्ययातनासंस्था ये नीता यमशासनैः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्

1.85.15

जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा ।
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्

1.85.16

ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः ।
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा

1.85.17

ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा

1.85.18

ये मे पितृकुले जाताः कुले मातुस्तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः

1.85.19

ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ।
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा

1.85.20

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्

1.85.21

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ।
मय गयां समासाद्य पितॄणां निष्कतिः कृता

1.85.22

आगतो ऽहं गयां देव ! पितृकार्ये गदाधर ।
तन्मे साक्षी भवत्वद्य अनृणो ऽहमृणत्रयात्

1.85.23

महानदी ब्रह्मसरो ऽक्षयो वटः प्रभासमुद्यन्तमहो? गयाशिरः ।
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc