गरुड़ पुराण · अध्याय 1.84
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 84
ब्रह्मोवाच ।
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीविषं ग्रामस्यापि प्रदक्षिणम्
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः
गृहाच्चलितमात्रस्य गयायां गमनं प्रति ।
स्वर्गारोहणसोपानं पितॄणां तु पदेपदे
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम्
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् ।
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्
तस्मिन्निवर्तयेच्छ्राद्धं स्नानं चैव निवर्तयेत् ।
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत् ।
ऋणत्रयापाकरणं लभेद्दक्षिणमानसे
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः ।
लेलिहानैर्महाघोरैरक्षतैः पन्नगोत्तमैः
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम्
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम् ।
सूर्यं नत्वा त्विदं कुर्यात्कृतपिण्डादिसत्क्रियः
कव्यवाहस्तथा सोमो यमश्चैवार्यमा तथा ।
अग्निष्वात्ता बर्हिषदः सोमपाः पिदृदेवताः
आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह ।
मदीयाः पितरो ये च कुले जाताः सनाभयः
तेषां पिण्डप्रदानार्थमागतो ऽस्मि गयामिमाम् ।
कृतपिण्डः फल्गुतीर्थे पश्यैद्देवं पितामहम्
गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत् ।
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ।
प्रथमेह्निविधिः प्रोक्तो द्वितीयदिवसे व्रजेत्
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत् ।
धर्मारण्यं समासाद्य वाजपेयफलं लभेत्
राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके ।
श्राद्धं पिण्डोदकं कार्यं मध्ये वै कूपयूपयोः
कूपोदकेन तत्कार्यं पितॄणां दत्तमक्षयम् ।
तृतीये ऽबह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम्
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः ।
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः
तेषा सेवनमात्रेण पितरो मोक्षगामिनः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्
फल्गुतीर्थे चतुर्थे ऽहिनि स्नात्वा देवादितर्पणम् ।
कृत्वा श्राद्धङ्गयाशीर्षे कुर्याद्रुद्रपदादिषु
पिणाडान्देहिमुखे व्यासे पञ्चाग्नौ च पदत्रये ।
सूर्येन्दुकार्तिकेयेषु कृतं श्राद्धं तथाक्षयम्
श्राद्धं तु नवदेवत्यं कुर्याद्द्वादशदैवतम् ।
अन्वष्टकासु वृद्धौ च गयायां मृतवासरे
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम्
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्तते पुनः ।
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात्
स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे ।
शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे
पितरो यान्ति देवत्वं नात्र कार्या विचारणा ।
मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता
अल्पेन तपसा तत्र महापुण्यमवाप्नुयात् ।
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत्
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
पञ्चमे ऽह्नि गन्दालोले स्नात्वा वटतले ततः
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम् ।
वटमूलं समासाद्य शाकेनोष्णोदकेन वा
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः ।
कृते श्राद्धे ऽक्षयवटे दृष्ट्वा च प्रपितामहम्
अक्षयाल्लंभते लोकान्कुलानामुद्धरेच्छतम् ।
एष्टव्या बहवः पुत्त्रा यद्येको ऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
प्रेतः कश्चित्समुद्दिश्य वणिजं कञ्चिदब्रवीत्
मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु ।
प्रेतभावाद्विमुक्तः स्यांस्वर्गदो दातुरेव च
श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम् ।
प्रददावनुजैः सार्धं स्वपितृभ्यस्ततो ददौ
सर्वे मुक्ता विशालो ऽपि सपुत्रो ऽभुच्च पिण्डदः ।
विशालायां विशालो ऽभूद्राजपुत्रोब्रवीद्द्विजान्
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम् ।
गयायां पिण्डदानेन तव सर्वं भविष्यति
विशालो ऽथ गयाशीर्ष पिण्डदो ऽभूच्च पुत्रवान् ।
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत्
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् ।
अहं सितस्ते जनक इन्द्रलोकं गतः शभम्
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् ।
अयं पितामहः कृष्ण ऋषयो ऽनेन घातिताः
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डद ।
मुक्तीकृतास्ततः सर्वे व्रजामः स्वर्गमुत्तमम्
कृतकृत्यो विशालो ऽपि राज्यं कृत्वा दिवं ययौ ।
ये ऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिःसृताः ।
येषां दाहो न क्रियाच ये ऽग्निदग्धास्तथापरे
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ।
पिता पितामहश्चैव तथैव प्रपितामहः
माता पितामही चैव तथैव प्रपितामही ।
तथा मातामहश्चैव प्रमातामह एव च
वृद्धप्रमातामहश्च तथा मातामही परम् ।
प्रमातामही तथा वृद्धप्रमातामहीति वै
अन्येषां चैव पिण्डो ऽयमक्षय्यमुपतिष्ठताम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0