गरुड़ पुराण · अध्याय 1.83
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम द्व्यशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 83
ब्रह्मोवाच ।
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् ।
विषयश्चारणः पुण्यो नदीनां च पुनः पुना
मुण्डपृष्ठं तु पूर्वस्मिन्पश्चिमे दक्षिणोत्तरे ।
सार्धक्रोशद्वयं मानं गयायां परिकीर्तितम्
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।
तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती
नगाज्जनार्दनाच्चैव कूपाच्चोत्तरमानसात् ।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते
तत्र पिण्डप्रदानेन पितॄणा परमा गतिः ।
गयागमनमात्रेण पितॄणामनृणो भवेत्
गयायां पितृरूपेण देवदेवो जनार्दनः ।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात्
रथमार्गं गयतीर्थे दृष्ट्वा रुद्रपदादिके ।
कालेश्वरं च केदारं पितॄणामनृणो भवेत्
दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते ।
लोकं त्वनामयं याति दृष्ट्वा च प्रपितामहम्
तथा गदाधरं देवं माधवं पुरुषोत्तमम् ।
तं प्रणम्य प्रयत्नेन न भूयो जायते नरः
मौनादित्यं महात्मानं कनकार्कं विशेषतः ।
दृष्ट्वा मौनेन विप्रर्षे पितॄणामनृणो भवेत्
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ।
गायत्त्रीं प्रतरुत्थाय यस्तु पश्यति मानवः
सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत् ।
सावित्रीं चैव मध्याह्ने दृष्ट्वा यज्ञफलं लभेत्
सरस्वतीं च सायाह्ने दृष्ट्वा दानफलं लभेत् ।
नगस्थमीश्वरं दृष्ट्वा पितॄणामनृणो भवेत्
धर्मारण्यं धर्ममीशं दृष्ट्वा स्यादृणनाशनम् ।
देवं गृध्रेश्वरं दृष्ट्वा को न मुच्येत बन्धनात्
धेनुं दृष्ट्वा धेनुवने ब्रह्मलोकं नयेत्पितॄन् ।
प्रभासेशं प्रभासे च दृष्ट्वा याति परां गतिम्
कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम् ।
स्वर्गद्वारेश्वरं दृष्ट्वा मुच्यते भवबन्धनात्
रामेश्वरं गदालोलं दृष्ट्वा स्वर्गमवाप्नुयात् ।
ब्रह्मेश्वरं तथा दृष्ट्वा मुच्यते ब्रह्महत्यया
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात् ।
फल्ग्वीशं फल्गुचण्डीं च गौरीं दृष्ट्वा च मङ्गलाम्
गोमकं गोपतिं देवं पितॄणामनृणो भवेत् ।
अङ्गारेशं च सिद्धेशं गयादित्यं गजं तथा
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत् ।
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्
एतेन किं न पर्याप्तं नॄणां सुकृतकारिणाम् ।
ब्रह्मलोकं प्रयान्तीह पुरुषा एकविंशतिः
पृथिव्यां यानि तीर्थानी ये समुद्राः सरांसि च ।
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिनेदिने
पृथिव्यां च गया पुण्या गयायां च गयाशिरः ।
श्रेष्ठं तथा फल्गुतीर्थं तन्मुखं च सुरस्य हि
उदीचि कनकानद्यो नाभितीर्थं तु मध्यतः ।
पुण्यं ब्रह्मसदस्तीर्थं स्नानात्स्याद्ब्रह्मलोकदम्
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेम् ।
तथाक्षयवटे श्राद्धी ब्रह्मलोकं नयेत्पितॄन्
हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।
कोटितीथ गयालोले वैतरण्यां च गोमके
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम् ।
ब्रह्मतीर्थे रामतीर्थे आग्नेये सोमतीर्थके
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत् ।
उत्तरे मानसे श्राद्धी न भूयो जायते नरः
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत् ।
स्वगद्वारे नरः श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।
भीष्मतर्पणकृत्तस्य कूटे तारयते पितॄन् ।
गृध्रेश्वरे तथा श्राद्धी पितॄणामनृणो भवेत्
श्राद्धी च धेनुकारण्ये ब्रिह्मलोकं पितॄन्नयेत् ।
तिलधेनुप्रदः स्नात्वा दृष्ट्वा धेनुं न संशयः
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा ।
महानद्यां कृतश्राद्धो ब्रह्मलोकं नयेत्पितॄन्
गायत्त्रे चैव सावित्रे तीर्थे सारस्वते तथा ।
स्नानस न्ध्यातर्पणकृच्छ्राद्धी चैकोत्तरं शतम्
पितॄणां तु कुलं ब्रह्मलोकं नयति मानवः ।
ब्रह्मयोनिं विनिर्गच्छेत्प्रयतः पितृमानसः
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे ।
तर्पणे काकजङ्घार्या पितॄणां तृप्तिरक्षया
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत् ।
धर्मयूपे च कूपे त पितॄणामनृणो भवेत्
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ।
मयागत्य मतङ्गे ऽस्मिन्पितॄणां निष्कृतिः कृता
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके ।
शिलायां प्रेतभावात्स्युर्मुक्ताः पितृगणाः किल
श्राद्धकृच्छ स्वपुष्टायां त्रिः सफ्तकुंलमुद्धरेत् ।
श्राद्धकृन्मुण्डपृष्ठादौ ब्रह्मलोकं नयेत्पितॄन्
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते ।
पञ्चक्रोशे गयाक्षेत्रे यत्र तत्र तु पिण्डदः
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन् ।
जनार्दनस्य हस्ते तु पिण्डं दद्यात्स्वकं नरः
एष पिण्डे मया दत्तस्तव हस्ते जनार्दन ! ।
परलोकं गते मोक्षमक्षय्यमुपतिष्ठताम्
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम् ।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा
गयाशीर्षे ऽक्षयवटे पितॄणां दत्तमक्षयम् ।
धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत् ।
ब्रह्मारण्यं महानद्याः पश्चिमो भाग उच्यते
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः ।
भरतस्याश्रमे श्राद्धी मतङ्गस्य पदे भवेत्
गयाशीर्षाद्दक्षिणतो महानद्याश्च पश्चिमे ।
तत्स्मृतं चम्पकवनं तत्र पाण्डुशिलास्ति हि
श्राद्धी तत्र तृतीयायां निश्चिरायाश्च मण्डले ।
महाह्रदे च कौशिक्यामक्षयं फलमाप्नुयात्
वैतरण्या श्चोत्तरतस्तृतीयाख्यो जलाशयः ।
पदानि तत्र क्रौञ्चस्य श्राद्धी स्वर्गं नयेत्पितॄन्
क्रौञ्चपादादुत्तरतो निश्चिराख्यो जलाशयः ।
सकृद्यत्राभिगमनं सकृत्पिंण्डप्रपातनम्
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः ।
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः
अक्षयान्प्राप्नुयाल्लोकान्कुलं चापि समुद्धरेत् ।
सावित्रे पठ्यते सन्ध्या कृता स्याद्द्वादशाब्दिकी
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
गयायां मुणाडपृष्ठं च अरविन्दं च पर्वतम् ।
तृतीयं क्रैञ्चपादं च दृष्ट्वा पापैः प्रमुच्यते
मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम्
महाह्रदे च कौशिक्यां मूलक्षेत्रे विशेषतः ।
गुहायां गृध्रकूटस्य श्राद्धं दत्तं (सप्त) महाफलम्
यत्र माहेश्वरी धारा श्राद्धी तत्रानृणो भवेत् ।
पुण्यां विशालामासाद्य नदीं त्रैलोक्य विश्रुताम्
अग्निष्टोममवाप्नोति श्राद्धी प्रायाद्दिवं नरः ।
श्राद्धी मासपदे स्नात्वा वाजपेयफलं लभेत्
रविपादे पिण्डदानात्पतितोद्धारणं भवेत् ।
गयास्थो यो ददात्यन्नं पितरस्तेन पुत्रिणः
काङ्क्षन्ते पितरः पुत्रान्नरकाद्भयभीरवः ।
गयां यास्यति यः कश्चित्सो ऽस्मान्सन्तरयिष्यति
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।
पभ्द्यामपि जलं स्पृष्ट्वा अस्मभ्यं किल दास्यति
आत्मजो वा तथान्यो वा गयाकूपे यदा तदा ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम्
पुण्डरीकं विष्णुलोकं प्राप्नुयात्कोटितीर्थगः ।
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता
सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय हि ।
श्राद्धदः पिण्डदस्तत्र गोप्रदानं करोतियः
एकविंशतिवंश्यान्स तारयेन्नात्र संशयः ।
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्यये
तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः ।
तेषां ब्रह्मसदः स्थानं सोमपानं तथैव च
ब्रह्मप्रकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पपिताः ।
पूजितैः पूजिताः सर्वे पितृभिः सह देवताः
तर्पयेत्तु गयाविप्रान्हव्यकव्यैर्विधानतः ।
स्थानं देहपरित्यागे गयायां तु विधीयते
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्यनुत्तमे ।
अग्निष्टोमशतं पुण्यं लभते नात्र संशयः
आत्मनो ऽपि महाबुद्धिर्गयायां तु तिलैर्विना ।
पिण्डनिर्वापणं कुर्यादन्येषामपि मानवः
यावन्तो ज्ञातयः पित्र्या बान्धवाः सुहृदस्तथा ।
तेभ्यो व्यासगयाभूमौ पिण्डो देयो विधानतः
रामतीर्थे नरः स्नात्वा गोशतस्याप्नुयात्फलम् ।
मतङ्गवाप्यां स्नात्वा च गोसहस्रफलं लभेत्
निश्चिरासंगमे स्नात्वा ब्रह्मलोकं नयेत्पितॄन् ।
वसिष्ठस्याश्रमे स्नात्वा वाजपेयं च विन्दति
महाकौश्यां समावासादश्वमेधफलं लभेत् ।
पितामहस्य सरसः प्रसृता लोकपावनी
समीपे त्वग्निधारेति विश्रुता कपिला हि सा ।
अग्निष्टोमफलं श्राद्धी स्नात्वात्र कृतकृत्यता
श्राद्धी कुमारधारायामश्वमेधफलं लभेत् ।
कुमारमभिगम्याथ नत्वा मुक्तिमवाप्नुयात्
सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति ।
संवर्तस्य नरो वाप्यां सुभगः स्यात्तु पिण्डदः
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः ।
देवनद्यां लेलिहाने मथने जानुगर्तके
एवमादिषु तीर्थेषु पिण्डदस्तारयेत्पितॄन् ।
नत्वा देवान्वसिष्ठेशप्रभृतीनृणसंक्षयम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0