भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.82

1.82.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 82
श्रीगणेशाय नमः ।
(अथ गयामाहात्म्यं प्रारभ्यते) ।
ब्रह्मोवाच ।
सारात्सारतरं व्यास गयाभाहात्म्य मुत्तमम् ।
प्रवक्ष्यामि समासेन बुक्तिमुक्तिप्रदं शृणु

1.82.2

गयासुरो ऽभवत्पूर्वं वीर्यवान्परमः स च ।
तपस्तप्यन्महाघोरं सर्वभूतोपतापनम्

1.82.3

तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः ।
शरणं हरिरूचे तान् भवितव्यं शिवात्मभैः

1.82.4

पात्यते ऽस्य महादेहो तथेत्यूचुः सुरा हरिम् ।
कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च

1.82.5

आनीय कीकटे देशे शयनं चाकरोद्वली ।
विष्णुमायाविमूढो ऽसौ गदया विष्णुना हतः

1.82.6

अतो गदाधरो विष्णुर्गयायां मुक्तिदः स्थितः ।
तस्य देहो लिङ्गरूपी स्थितः शुद्धे पितामहः

1.82.7

जनार्दनश्च कालेशस्तथान्यः प्रपितामहः ।
विष्णुराहाथ मर्यादां पुण्यक्षेत्रं भविष्यति

1.82.8

यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः ।
स स्वर्गं ब्रह्मलोकं च गच्छेन्न नरकं नरः

1.82.9

गयातीर्थं परं ज्ञात्वा यागं चक्रे पितामहः ।
ब्राह्मणान्पूजयामास ऋत्विगर्थमुपागतान्

1.82.10

महानदीं रसवहां सृष्ट्वा वाप्यादिकं तथा ।
भक्ष्यभोज्यफलादींश्च कामधेनुं तथासृजत्

1.82.11

पञ्चक्रोशं गयोक्षेत्रं ब्राह्मणेभ्यो ददौ प्रभुः ।
धरमयागेषु लोभात्तु प्रतिगृह्य धनादिकम्

1.82.12

स्थिता विप्रास्तदा शप्ता गयायां ब्राह्मणास्ततः ।
मा भूत्त्रैपुरुषी विद्या मा भूत्त्रैपुरुषं धनम्

1.82.13

युष्माकं स्याद्वारिवहा नदी पाषाणपर्वतः ।
शप्तैस्तु प्रार्थितो ब्रह्मानुग्रहं कृतवान्प्रभुः

1.82.14

लोकाः पुण्या गयायां हि श्राद्धिनो ब्रह्मलोकगाः ।
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा

1.82.15

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा

1.82.16

समुद्राः सरितः सर्वा वापीकूपह्रदास्तथा ।
स्नातुकामा गयातीर्थं व्यास यास यान्ति न संशयः

1.82.17

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
पापं तत्संगजं सर्वं गयाश्राद्धाद्विनश्यति

1.82.18

असंस्कृता मृता य च पशुचोरहताश्च ये ।
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते

1.82.19

गयायां पिण्डदानेन यत्फलं लभते नरः ।
न तच्छक्यं मया वक्तुं वर्षकोटिशतैरपि

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc