भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.81

1.81.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 81
(इति रत्नमुक्तादि परीक्षा समाप्ता ) ।
(अथ तीर्थक्षेत्रमाहात्म्यमारभ्यते ) ।
सूत उवाच ।
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा ।
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा

1.81.2

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।
प्रयागं परमं तीर्थं मृतानां भुक्तिमुक्तिदम्

1.81.3

सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम् ।
वाराणसी परं तीर्थं विश्वेशो यत्र केशवः

1.81.4

कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम् ।
प्रभासं परं तीर्थं सोमनाथो हि तत्र च

1.81.5

द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका ।
प्राची सरस्वती पुण्या सप्तसारस्वतं परम्

1.81.6

केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः ।
नरनरायणं तीर्थं मुक्त्यै वदरिकाश्रमः

1.81.7

श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम् ।
अयोध्या चार्घ्यतीर्थं तु चित्रकूटं च गोमती

1.81.8

वैनायकं महीतीर्थं रामगिर्याश्रमं परम् ।
काञ्चीपुरी तुङ्गभद्रा श्रीशैलं सेतुबन्धनम्

1.81.9

रामेश्वरं परं तीर्थं कार्तिकेयं तथोत्तमम् ।
भृगुतुङ्गं कामतीर्थं तीर्थं चामरकण्टकम्

1.81.10

उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः ।
कुब्जाम्रकं महातीर्थं कालसर्पिश्च कामदम्

1.81.11

महा केशी च कावेरी चन्द्रभागा विपाशया ।
एकाम्रं च तथा तीर्थं ब्रह्मेशं देवकोटकम्

1.81.12

मथुरा च पुरी रम्या शोणश्चैव महानदः ।
जम्बूसरो महातीर्थं तानि तीर्थानि विद्धि च

1.81.13

सूर्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति ।
एतेषु च यथान्येषु स्नानं दानं जपस्तपः

1.81.14

पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम् ।
शालग्रामं सर्वदं स्यात्तीर्थं पशुपतेः परम्

1.81.15

कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम् ।
लो (मो) हदण्डे महाविष्णुर्मन्दारे मधुसूदनः

1.81.16

कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति ।
पुण्ड्रवर्धनकं तीर्थं कार्तिकेयश्च यत्र च

1.81.17

विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम् ।
महेन्द्रपर्वतस्तीर्थं कावेरी च नदी परा

1.81.18

गोदावरी महातीर्थं पयोष्णी वरदा नदी ।
विन्ध्यः पापहरं तीर्थं नर्मदाभेद उत्तमः

1.81.19

गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी ।
कालञ्जरं महीतीर्थं शुक्लतीर्थमनुत्तमम्

1.81.20

कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके ।
विरजं सर्वदं तीर्थं स्वर्णाक्षं तीर्थमुत्तमम्

1.81.21

नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम् ।
नासिक्यं च महातीर्थं गोवर्धनमतः परम्

1.81.22

कृष्णवेणी भीमरथी गण्डकी या त्विरावती ।
तीर्थं बिन्दुसरः पुण्यं विष्णुपादोदकं परम्

1.81.23

ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः ।
दमस्तीर्थं तु परमं भवशुद्धिः परं तथा

1.81.24

ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम्

1.81.25

इदं तीर्थमिदं नेति ये नरा भेददर्शिनः ।
तेषां विधीयते तीर्थगमनं तत्फलं च यत्

1.81.26

सर्वं ब्रह्मेतियो ऽवेति नातीर्थं तस्य किञ्चन ।
एतेषु स्नानदानानि श्राद्धं पिण्डमथाक्षयम्

1.81.27

सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम् ।
श्रीरङ्गं च हरेस्तीर्थं तापी श्रेष्ठा महानदी

1.81.28

सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम् ।
महालक्ष्मीर्यत्र देवी प्रणीता परमा नदी

1.81.29

सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी ।
गङ्गाद्वारे कुशावर्ते विन्ध्यके नीलपर्वते

1.81.30

स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे ।
सू उवाच ।
एतान्यन्यानि तीर्थानि स्नानाद्यैः सर्वदानि हि

1.81.31

श्रुत्वाब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम् ।
एतान्युक्त्वा च तीर्थानि पुन स्तीर्थोत्तमोत्तमम् ।
गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc