भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.80

1.80.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 80
सूत उवाच ।
आदाय शेषस्तस्यान्त्रं बलस्य केलादिषु ।
चिक्षेप तत्र जायन्ते विद्रुमाः सुभहागुणाः

1.80.2

तत्र प्रधानं शशलोहिताभं गुञ्जाजपापुष्पनिभं प्रदिष्टम् ।
सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम्

1.80.3

अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् ।
प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत्

1.80.4

धनधान्यकरं लोके विषार्तिभयनाशनम् ।
परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः ।
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक !

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc