ग्रंथ पाठ
गरुड़ पुराण · अध्याय 1.79
1.79.1
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुधिराक्षरत्नपरीक्षणं नामाष्टसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 79
सूत उवाच ।
कावेरविन्ध्ययवनचीननेपालभूमिषु ।
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः
1.79.2
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ।
मृणालशङ्खधवलं किञ्चिद्वर्णान्तरन्वितम्
1.79.3
न त्तुल्यं हि रत्नानामथवा पापनाशनम् ।
संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः (दा)
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0