भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.7

1.7.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे उत्तानपादवंशादिवर्णनं नाम षष्ठो ऽध्यायः
श्रीगरुडमहापुराणम्- 7
रुद्र उवाच ।
सूर्यादिपूजनं ब्रूहि कृतं स्वायम्भुवादिभिः ।
भुक्तिमुक्तिप्रदं सारं व्यास ! संक्षेपतः परम्

1.7.2

हरिरुवाच ।
सूर्यादिपूजां वक्ष्यामि धर्ंमकामादिकारिकाम्

1.7.3

ओं सूर्यासनाय नमः ।
ओं नमः सूर्यमूर्तये ।
ओं ह्रां ह्रीं सः सूर्याय नमः ।
ओं सोमाय नमः ।
ओं मङ्गलाय नमः ।
ओं बुधाय नमः
ओं बृहस्पतये नमः ।
ओं शुक्राय नमः ।
ओं शनैश्चराय नमः ।
ओं राहवे नमः ।
ओं केतवे नमः ।
ओं तेजश्चण्डाय नमः

1.7.4

आसनावाहनं पाद्यमर्घ्यमाचमनं तथा ।
स्नानं वस्त्रोपवीतञ्च गन्धपुष्पं च धूपकम्

1.7.5

दीपकं च नस्कारं प्रदक्षिणविसर्जने ।
सूर्यादीनां सदा कुर्यादिति मन्त्रैर्वृषध्वज !

1.7.6

ओं ह्रांशिवाय नमः ।
ओं ह्रां शिवमूर्तये शिवाय नमः ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रै कवचाय हुं ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय नमः ।
ओं ह्रां सद्योजातय नमः ।
ओं ह्रीं वामदेवाय नमः ।
ओं ह्रूं अघोराय नमः ।
ओं ह्रैं तत्पुरुषाय नमः ।
ओं ह्रौं ईशानाय नमः ।
ओं ह्रीं गौर्यै नमः ।
ओं ह्रौं गुरुभ्यो नमः ।
ओं ह्रौं इन्द्राय नमः ।
ओं ह्रौं चण्डाय नमः ।
ओं ह्रां अघोराय नमः ।
ओं वासुदेवासनाय नमः ।
ओं वासुदवमूर्तये नमः ।
ओं अं ओं नमो भगवते वासुदेवाय नमः ।
ओं आं ओं नमो भगवते सङ्कर्षणाय नमः ।
ओं अं ओं नमो भगवते प्रद्युम्नाय नमः ।
ओं अः ओं नमो भगवते अनिरुद्धाय नमः ।
ओं नारायणाय नमः ।
ओं तत्सब्द्रह्यणे नमः ।
ओं ह्रां विष्णवे नमः ।
ओं क्षौं नमो भगवते नरसिंहाय नमः ।
ओं भूः ओं नमो भगवते वराहाय नमः ।
ओं कं टं पं शं वैनतेयाय नमः ।
ओं जं खं रं सुदर्श नाय नमः ।
ओं खं ठं फं षं गदैयौ नमः ।
ओं वं लं मं क्षं पाञ्चजन्याय नमः ।
ओं घं ढं भं हं श्रियै नमः ।
ओं गं डं वं सं पुष्ट्यै नमः ।
ओं धं षं वं सं वनमालायै नमः ।
ओं सं दं लं श्रीवत्साय नमः ।
ओं ठं चं भं यं कौस्तुभाय नमः ।
ओं गुरुभ्यो नमः ।
ओं इन्द्रादिदिक्पालेभ्यो नमः ।
ओं विष्वक्सेनाय नमः

1.7.7

आसनादीन्हरेरतैर्मन्त्रैर्मन्त्रैर्दद्याद्वृषध्वज ! ।
विष्णुशक्त्याः सरस्वत्याः पूजां शृणु शुभप्रदाम्

1.7.8

ओं ह्रीं सरस्वत्यै नमः ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे नमः ।
ओं ह्रूं शिखायै नमः ।
ओं ह्रैं कवचाय नमः ।
ओं ह्रौं नेत्रत्रयाय नमः ।
ओं ह्रः अस्त्राय नमः

1.7.9

श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः ।
ओं ह्रीङ्काराद्या नमो ऽन्ताश्च सरस्वत्याश्च शक्तयः

1.7.10

क्षेत्रपालाय नमः ।
ओं गुरुभ्यो नमः ।
ओं परमगुरुभ्यो नमः

1.7.11

पद्मस्थायाः सरस्वत्या आसनाद्यं प्रकल्पयेत् ।
सूर्यादीनां स्वकैर्प्रन्त्रैः पवित्रारोहणं तथा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc