भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.75

1.75.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 75
सूत उवाच ।
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः ।
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूजयतमं पृथिव्याम्

1.75.2

वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति ।
नीलं पुनः खलु सितं परुषं विभिन्नं व्याध्यादिदोषकरणेन च तद्विभाति

1.75.3

स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः ।
त्रासव्रणव्यालविवर्जिताश्च कर्केतनास्ते परमं पवित्राः

1.75.4

पत्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम् ।
रोगप्रणाशनकरं कलिनाशनं तदायुष्करं कुलकरं च सुखप्रदं च

1.75.5

एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये ।
ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपिते भवन्ति

1.75.6

एके ऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः ।
तेजो ऽतिदीप्ति कुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति

1.75.7

कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम् ।
तस्योत्तमस्य मणि शास्त्रविदां महिम्ना तुल्यं तु मूल्यमुदितं तुलितस्य कार्यम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc