भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.74

1.74.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम त्रिसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 74
सूत उवाच ।
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः ।
प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः

1.74.2

आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु ।
कौकण्टकनामा स्यात्स एव यदि लोहितापीतः

1.74.3

आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः ।
आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः

1.74.4

अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् ।
अपि चेन्द्रनीलसंज्ञः स एव कथितः सुनीलः सन्

1.74.5

मूल्यं वैदूर्यमणेरिव गादितं ह्यस्य रत्नसारविदा ।
धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc