गरुड़ पुराण · अध्याय 1.76
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 76
सूत उवाच ।
हिमवत्युत्तरदेशे वीर्यं पतितं सुरद्विषस्तस्य ।
संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम्
शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभा प्रभावन्तः ।
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः
हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः ।
भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते
निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपऽपि ।
द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्त्राः
तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति ।
भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः
पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ।
शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ।
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति
शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम् ।
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः
मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात् ।
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0