भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.73

1.73.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे इन्द्रनीलपरीक्षणं नाम द्विसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 73
सूत उवाच ।
वैदूर्यपुष्परागाणां कर्केते भीष्मके वदे ।
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विजा

1.73.2

कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात् ।
वैदूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिवर्णबीजम्

1.73.3

अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः ।
कामभूतिकसीमानमनु तस्याकरोभवत्

1.73.4

तस्य नादसमुत्थत्वादाकरः सुमहागुणः ।
अभूदुत्तरीतो लोके लोकत्रयविभूषणः

1.73.5

तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः ।
वैदूर्यरत्नमणयो विविधावभासस्तस्मात्स्फुलिङ्गनिवहा इव संबभूवुः

1.73.6

पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ।
सर्वांस्तान्वर्णशोभाभिर्वैदूर्यमनुगच्छति

1.73.7

तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम् ।
चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः

1.73.8

गुणवान्वैदूर्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः ।
दोषैर्युक्तो दोषैस्तस्माद्यत्नात्परीक्षेत

1.73.9

गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः ।
वैदूर्यमणेरेते विजातयः सन्निभाः सन्ति

1.73.10

लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात् ।
गिरिकाचसदीप्तित्वात्स्फटिकं वर्णोज्ज्वलत्वेन

1.73.11

यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ।
तदेव वैदूर्यमणेः प्रदिष्टं पलद्वयोन्मापि तगौरवस्य

1.73.12

जात्यस्य सर्वे ऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः ।
तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः

1.73.13

सुखोपलक्ष्यश्च सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।
स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम्

1.73.14

कुशलाकुशलैः प्रपूर्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ।
गुणदोषसमुद्भवं लभन्ते मणयोर्ऽथोन्तरमूल्यमेव भिन्नाः

1.73.15

क्रमशः समतीतवर्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् ।
यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम्

1.73.16

आकरान्समतीतानामुदधेस्तीरसन्निधौ ।
मूल्यमेतन्मणीनां तु न सर्वत्र महीतले

1.73.17

सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।
तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति

1.73.18

शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः ।
पलस्य दशमो भागो धरणः परिकीर्तितः

1.73.19

इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc