भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.72

1.72.1

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्ड मरकतपरीक्षणं नामैकसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 72
सूत उवाच ।
तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवलीकुसुमप्रवाले ।
देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युति नेत्रयुग्मम्

1.72.2

तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः ।
प्रोद्भिन्नकेतकवनप्रतिबद्धलेखासान्द्रेन्द्रनीलमणिरत्नवती विभाति

1.72.3

तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायुधाङ्गहरकण्ठकषायपुष्पैः ।
शुष्केतरैश्च कुसुमैर्गिरिकर्णिकायास्तस्माद्भवन्ति मणयः सदृशावभासः

1.72.4

अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगणप्रतिमास्तथान्ये ।
नीलीरसप्रभवबुद्वुदभाश्च केचित्केचित्तथा समदकोकिलकण्ठभासः

1.72.5

एकप्रकारा विस्पष्टवर्णशोभावभासिनः ।
जायन्ते मणयस्तस्मिन्निन्द्रनीला महागुणाः

1.72.6

मृत्पाषाणशिलारन्ध्रकर्करात्राससंयुताः ।
अभ्रिकापटलच्छायावर्णदोषैश्च दूषिताः

1.72.7

तत एव हि जायन्ते मणयस्तत्र भूरयः ।
सास्त्रसम्बोधितधियस्तान्प्रशंसन्ति सूरयः

1.72.8

धार्यमाणस्य ये दृष्टा पद्मरागमणेर्गुणाः ।
धारणादिन्द्रनीलस्य तानेवाप्नोति मानवः

1.72.9

यथा च पद्मरागाणां जातकत्रितयं भवेत् ।
इन्द्र नीलेष्वपि तथा द्रष्टव्यमविशेषतः

1.72.10

परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते ।
त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि

1.72.11

यावन्तं च क्रमेदग्निं पद्मरागोपयोगतः ।
इन्द्रनीलमणिस्तस्मात्क्रमेत सुमहत्तरम्

1.72.12

तथापि न परीक्षार्थं गुणानामभि (ति) वृद्धये ।
मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन

1.72.13

अग्निमात्रापरिज्ञाने दाहदोषैश्च दूपितः ।
सो ऽनर्थाय भवेद्भर्तुः कर्तुः कारयितुस्तथा

1.72.14

काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवैदूर्याः ।
कथिता विजातय इमे सदृशा मणिनेन्द्रनीलेन

1.72.15

गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ ।
काचाद्यथावदुत्तरविवर्धमानौ विशेषेण

1.72.16

इन्द्रनीलो यथा कश्चिद्विभर्त्याताम्रवर्णताम् ।
रक्षणयौ तथा ताम्रौ करवीरोत्पलावुभौ

1.72.17

यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा ।
तमिन्द्रनीलमित्याहुर्महार्हं भुवि दुर्लभम्

1.72.18

यस्य वर्णस्य भूयस्त्वात्क्षीरे शतगुणे स्थितः ।
नीलतां तन्नयेत्सर्वं महानीलः स उच्यते

1.72.19

यत्पद्मरागस्य महागुणस्य मूल्यं भवेन्माषसमुन्मितस्य ।
तदिन्द्रनीलस्य महागुणस्य सुवर्ण संख्यातु लितस्य मूल्यम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc