भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.68

1.68.1

इति श्रीगारुडेमहापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 68
सूत उवाच ।
परिक्षां वच्मिरत्नानां बलो नामासुरो ऽभवत् ।
इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते

1.68.2

वरव्याजेन पशुतां याचितः स सुरैर्मखे ।
बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः

1.68.3

पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः ।
बलो लोकोपराय देवानां हितकाम्यया

1.68.4

तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा ।
कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः

1.68.5

देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।
रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा

1.68.6

तेषां तु पततां वेगाद्विमानेन विहायसा ।
यद्यत्पपात रत्नानां बीजं क्रचन किञ्चन

1.68.7

महोदधौ सरिति वा पवर्त कानने ऽपि वा ।
तत्तदाकरतां यातं स्थानमाधेयगौरवात्

1.68.8

तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च

1.68.9

वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः ।
अपि चेन्द्रनीलमणिवरवैदूर्याः पुष्परागाश्च

1.68.10

कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम् ।
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः

1.68.11

आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च ।
मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम्

1.68.12

कुलग्नेषूपजायन्ते यानि चोपहते ऽहनि ।
दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा

1.68.13

परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ।
धारणं संग्रहो वापि कार्यः श्रियमभीप्सता

1.68.14

शास्त्रज्ञः कुशलाश्चापि रत्नभाजः परीक्षकाः ।
त एव मूल्यमात्राया वेत्तारः परिकीर्तिताः

1.68.15

महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम् ।
वज्रपूर्वा परीक्षेयं ततो ऽस्माभिः प्रकीर्त्यते

1.68.16

तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव ।
वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु

1.68.17

हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोसलाः ।
वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः

1.68.18

आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः ।
कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः

1.68.19

अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक् समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् ।
लोके ऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्रचिद्दृश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि

1.68.20

वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः ।
वर्णेभ्यश्च विभागः कार्यो वर्णाश्रयादेव

1.68.21

हरितसितपीतपिङ्गश्यामास्ताम्राः स्वभावतो रुचिराः ।
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः

1.68.22

विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः ।
वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः

1.68.23

द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः

1.68.24

ईशत्वात्सर्ववर्णानां गुणवत्सार्बवर्णिकम् ।
कामतो धारयेद्राजा न त्वन्यो ऽन्यत्कथञ्चन

1.68.25

अधरोत्तरवृत्तया हि यादृक् स्याद्वर्णसङ्करः ।
ततः कष्टतरो वज्रवर्णानां सङ्करो मतः

1.68.26

न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः ।
गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः

1.68.27

एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा ।
गुणवदपि तन्न धार्यं वज्रं श्रेयो ऽर्थिभिर्भवने

1.68.28

स्फुटिताग्निवि शीर्णशृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् ।
न हि वज्रभृतो ऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्यात्

1.68.29

यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् ।
न तन्न कुर्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम्

1.68.30

कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च ।
उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः

1.68.31

षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम् ।
इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षमेवंविधं भुवि भवेत्सुलभं न वज्रम्

1.68.32

तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् ।
वृद्धिस्तं प्रतिदिनमेति यावदायुः स्त्रीसम्पत्सुतधनधान्यगोदशूनाम्

1.68.33

व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च ।
दूरात्तस्य निवर्तन्ते कर्माण्याथर्वणानि च

1.68.34

यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे ।
मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्रमूल्यम्

1.68.35

त्रिभागहीनार्धतदर्धशेषं त्रयोदशं त्रिंशदतोर्ऽद्धभागाः ।
अशीतिभागो ऽथ शतांशभागः सहस्रभागो ऽल्पसमानयोगः

1.68.36

यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् ।
द्वाभ्यां क्रमाद्वानिमुपागतस्य त्वेकावमानस्य विनिश्चयो ऽयम्

1.68.37

न चापि तण्डुलैरेव वज्राणां धरणक्रमः ।
अष्टाभिः सर्षपैर्गैरैस्तंण्डुलं परिकल्पयेत्

1.68.38

यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि ।
रत्नवर्गे समस्ते ऽपि तस्य धारणमिष्यते

1.68.39

अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम् ।
स्व (स) मूल्याद्दशमं भागं वज्रं लभति मानवः

1.68.40

प्रकटानेकदोषस्य स्वल्पस्य महतो ऽपि वा ।
स्व (सु) मूल्याच्छतशो भागो वज्रस्य न विधीयते

1.68.41

स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते ।
रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु

1.68.42

प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् ।
अलमाभरणेन तस्य राज्ञो गुणहीनो ऽपि मणिर्न भूषणाय

1.68.43

नार्या वज्रमधार्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या ।
अन्यत्र दीर्घाचिपिटत्र्यश्राद्यगुणैर्वियुक्ताच्च

1.68.44

अयसा पुष्परागेण तथा गोमेदकेन च ।
वैदूर्यस्फटिकाभ्यां च काचैश्चापि पृथग्विधैः

1.68.45

प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः ।
परीक्षा तेषु कर्तव्या विद्वद्भिः सुपरीक्षकैः

1.68.46

क्षारोल्लेखनशाणाभिस्तेषां कार्यं परीक्षणम् ।
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः

1.68.47

सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते ।
गुरुता सर्वरत्नानां गौरवाधारकारणम्

1.68.48

वज्रे तां वैपरीत्येन सूरयः परिचक्षते ।
जातिरजातिं विलिखति जातिं विलिखन्ति वज्रकुरुविन्दाः

1.68.49

वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम् ।
वज्राणि मुक्तामणयो ये च केचन जातयः

1.68.50

न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनी ।
तिर्यक् क्षतत्वात्केषाञ्चित्कथञ्चिद्यदि जायते ।
तिर्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते

1.68.51

यद्यपि विशीर्णकोटिः सबिन्दुरेखान्वितो विवर्णो वा ।
तदपि धनधान्यपुत्रान्करोति सेन्द्रायुधो वज्रः

1.68.52

सौदा मिनीविस्फुरिताभिरामं राजा यथोक्तं कलिशं दधानः ।
पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc