भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.67

1.67.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 67
(इति ज्योतिः शास्त्रं समाप्तम्) ।
सूत उवाच ।
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत्

1.67.2

कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्तितः ।
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः

1.67.3

गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ।
वामनाडीं तु मध्यस्थां कारयेदात्मनस्तथा

1.67.4

यदाचर इलायुक्तस्तदा कर्मसमाचरेत् ।
स्थानसेवां तथा ध्यानं वाणिज्यं राजदर्शनम्

1.67.5

अन्यानि शुभकर्माणि कारयेत प्रयत्नतः ।
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः

1.67.6

इनश्चैव तथाप्ये पापानामुदयो भवेत् ।
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात्

1.67.7

देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः ।
नाभेरधस्ताद्यः कन्दस्त्वङ्कुरास्तत्र निर्गताः

1.67.8

द्विसप्ततिसहस्राणि नाभिमध्ये व्यवस्थिते ।
चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः

1.67.9

तासां मध्ये त्रयः श्रेष्ठा वामदक्षैणमध्यमाः ।
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा

1.67.10

मध्यमा च भवेदग्निः फलन्ती कालपूरिणी ।
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता

1.67.11

दक्षिणा रौद्रभागेन जगच्छोषयते सदा ।
द्वयोर्वाहे तु मृत्युः स्यात्सर्वकार्यविनाशिनी

1.67.12

निर्गमे तु भवेद्वामा प्रवेशे दक्षैणा स्मृता ।
इडाचारे तथा सौम्यं चन्द्रसूर्यगतस्तथा

1.67.13

कारयेत्क्रूर कर्माणि प्राणे पिङ्गलसंस्थिते ।
यात्रायां सर्वकार्येषु विषापहारणे इडा

1.67.14

भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका ।
उच्चाटमारणाद्येषु कर्मस्वेतेषु पिङ्गला

1.67.15

मैथुने चैव संग्रामे भोजने सिद्धिदायिका ।
शोभनेषु च कार्येषु यात्रायां विषकर्मणि

1.67.16

शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः ।
द्वाभ्यां चैव प्रवाहे च क्रूरसौम्यविवर्जने

1.67.17

विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः ।
सौम्यादिशुभकार्येषु लाभादिजयजीविते

1.67.18

गमनागमने चैव वामा सर्वत्र पूजिता ।
युद्धादिभोजने घाते स्त्रीणां चैव तु संगमे

1.67.19

प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि ।
शुभाशुभानि कार्याणि लाभालाभौ जयाजयौ

1.67.20

जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा ।
वामाचारे ऽथवा दक्षे प्रत्यये यत्र नायकः

1.67.21

तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः ।
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि

1.67.22

तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला ।
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा

1.67.23

घोरे घोराणि कार्याणि सौम्ये वै मध्यमानि च ।
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनी

1.67.24

तदा मृत्युं विजानीयाद्योगी योगविशारदः ।
यत्रयत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः

1.67.25

तत्रतत्र समं दिश्याद्वातस्योदयनं सदा ।
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा

1.67.26

वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा ।
वामे वामा शुभे चैव दक्षिणे दक्षिणा शुभा

1.67.27

जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेत् ।
यत्किञ्चित्कार्यमुद्दिष्टं जयादिशुभलक्षणम्

1.67.28

तत्सर्वं पूर्णनाड्यां तु जायते निर्विकल्पतः ।
अन्यनाड्यादिपर्यन्तं पक्षत्रयमुदाहृतम्

1.67.29

यावत्षष्ठी तु पृच्छायां पूर्णायां प्रथमो जयेत् ।
रिक्तायां तु द्वितीयस्तु कथयेत्तदशङ्कितः

1.67.30

वामाचारसमो वायुर्जायते कर्मसिद्धिदः ।
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम्

1.67.31

अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ।
तदासौ जयमाप्नोति योधः संग्राममध्यतः

1.67.32

दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ।
जा(ज) यते नात्र सन्देहो नाडीमघ्ये तु लक्षयेत्

1.67.33

पिङ्गलान्तर्गते प्राणे शमनीयाहवं जयेत् ।
यावन्नाड्युदयं चारस्तां दिशं यावदापयेत्

1.67.34

न दातुं जायते सो ऽपि नात्र कार्या विचारणा ।
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत्

1.67.35

सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्दिशेत् ।
जातचारे जयं विद्यान्मृतके मृतमादिशेत्

1.67.36

जयं पराजयं चैव यो जानाति स पण्डितः ।
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम्

1.67.37

कृत्वा तत्पदमाप्नोति यात्रा सन्ततशोभना ।
शशिसूर्यप्रवाहे तु सति युद्धं समाचरेत्

1.67.38

यस्तु पृच्छति तत्रस्थः स साधुर्जयतिध्रुवम् ।
यां दिशं वहते वायुस्तां दिशं यावदाजयः

1.67.39

जायते नात्र सन्देह हन्द्रो यद्यग्रतः स्थितः ।
मेष्याद्या दश या नाड्यो दक्षिणा वाम संस्थिताः

1.67.40

चरेस्थिरे तद्विमार्गे तादृशेतादृशे क्रमात् ।
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः

1.67.41

पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ।
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे

1.67.42

ऊर्ध्वे ऽग्निरध आपश्च तिर्यक्संस्थः प्रभञ्जनः ।
मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र सर्वदा

1.67.43

ऊर्ध्वे मृत्युरधः शान्तिस्तिर्यक् चोच्चाटयेत्सुधीः ।
मध्ये स्तम्भं विजानीयान्मोक्षः सर्वत्र सर्वगे

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc