भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.63

1.63.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहाणां शुभाशुभस्थानादिनिरूपणं नामैकपष्टितमो ऽध्यायः
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 63
श्रीगरुडमहापुराणम्- 63
हरिरुवाच ।
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर ।
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ

1.63.2

श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ ।
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि

1.63.3

विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ ।
सूर्पाकारौ च चरणौ संखुष्कौ विरलाङ्गुली

1.63.4

दुः खदारिद्यदौ स्याता नात्र कार्यां विचारणा ।
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा

1.63.5

रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् ।
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च

1.63.6

रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः ।
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः

1.63.7

स्थूललिङ्गो दरिद्रः स्याद्दुख्येकवृष्णी भवेत् ।
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे

1.63.8

प्रलम्बवृषणो ऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् ।
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः

1.63.9

निः स्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया ।
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः

1.63.10

सर्पोदरा दरिद्राः स्यू रेखाभिश्चायुरुच्यते ।
ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समाहिताः

1.63.11

सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः ।
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः

1.63.12

विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः

1.63.13

सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ।
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः

1.63.14

चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ।
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि

1.63.15

त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ।
धनपुत्र समायुक्तः स जीवेच्छरदः शतम्

1.63.16

तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः ।
संप्राप्ता या भवेद्रुद्र ! स जीवेच्छरदः शतम्

1.63.17

प्रथमा ज्ञानरेखा तु ह्यङ्गुष्ठादनुवर्तते ।
मध्यमामूलगा रेखा आयूरेखा अतः परम्

1.63.18

कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् ।
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम्

1.63.19

यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् ।
शतवर्षाणि जीवेच्च भोगी रुद्र ! न संशयः

1.63.20

कनिष्ठिकां समाश्रित्य मध्यमायामुपागता ।
षष्ठिवर्षायुषं कुर्यादायूरेखा तु मानवम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc