गरुड़ पुराण · अध्याय 1.61
इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 61
हरिरुवाच ।
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः ।
शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा
संपूज्यमानो लोकैस्तु गुरुवद्दृश्यते शशी ।
चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि
त्रिषुत्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम् ।
प्रवासस्थं पुनर्दृष्टं मृतावस्थं जयावहम्
हास्यावस्थं नता(क्रीडा) वस्थं प्रमोदावस्थमेव च ।
विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम्
कम्पा(न्या) वस्थं सुखावस्थं द्वादशावस्थगं भवेत् ।
प्रवासो हानिमृन्यृ च जयो हासेरतिः सुखम्
शोको भोगो ज्वरः कम्पः सुखं चेति क्रमात्फलम् ।
जन्मस्थः कुरुते तुष्टिं द्वितीये नास्ति निर्वृतिः
तृतीये राजसन्मानं चतुर्थे कलहागमः ।
पञ्चमेन मृगाङ्केन स्त्रीलाभो वै तथा भवेत्
घनधान्यागमः षष्ठे रतिः पूजा च सप्तमे ।
अष्टमे प्राणसन्देहो नवमे कोशसञ्चयः
दशमे कार्यनिष्पत्तिध्रुवमेकादशे जयः ।
द्वादशेन शशाङ्केन मृत्युरेव न संखयः
कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वै व्रजेत् ।
मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे
प्रशस्ता चोत्तर यात्रा धनिष्ठादिषु सप्तसु ।
अश्विनी रेवती चित्रा धनिष्ठा समलङ्कृतौ
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा ।
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु
शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके ।
शशिज्ञशुक्रजीवाश्च राशौ राशौ चाथ तृतीयके
भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके ।
शुक्रजीवौ पञ्चमे च चन्द्रकेतुसमाहितौ
मन्दाकारै च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे ।
ज्ञशुक्रावष्टमे श्रेष्ठौ नवमस्थो गुरुः शुभः
अर्कार्किचन्द्रा दशमे ग्रहा एकादशे खिलाः ।
बुधो ऽथ द्वादशे चैव भार्गवः सुखदो भवेत्
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः ।
तुलया सह मीनस्तु कुम्भेन सहकर्कटः
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः ।
एतत्षडष्टकं?प्रीत्यै भवत्येव न संशयः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0