भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.60

1.60.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 60
हरिरुवाच ।
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः ।
अष्टावङ्गारके चव बुधै स्पतदश स्मृताः

1.60.2

शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः ।
राहोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे

1.60.3

रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत् ।
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा

1.60.4

दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी ।
दिव्यस्त्रीदा बुधदशा राज्यदा कोशवृद्धिदा

1.60.5

शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत् ।
गुरोर्दशा राज्यदा स्यात्सुखधर्मादिदायिनी

1.60.6

राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत् ।
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत्

1.60.7

मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्तितः ।
मिथुनस्य बुधो ज्ञेयः सोमः कर्कटकस्य च

1.60.8

सूर्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च ।
भार्गवस्य तुला क्षेत्रं वृश्चिकोङ्गारकस्य च

1.60.9

धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ ।
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्तितम्

1.60.10

पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत् ।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे

1.60.11

अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ ।
मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः

1.60.12

नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः ।
विप्रकन्या शिवा एषां शङ्खभेरीवसुन्धराः

1.60.13

वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम् ।
जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः

1.60.14

कार्पासौषधितैलं च पक्राङ्गारभुजङ्गमाः ।
मुक्तकेशी रक्तमाल्यनग्नाद्यशुभमीक्षितम्

1.60.15

हक्राय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम् ।
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात्

1.60.16

नैरृत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे ।
अर्थ प्राप्नोति वायव्ये उत्तरे कलहोभवेत्

1.60.17

ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम् ।
विलिख्य रविचक्रं तु भास्करो नरसन्निभः

1.60.18

यस्मिन्नृक्षे वसद्भानुस्तदान्दि त्रीणि मस्तके ।
त्रयं वक्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत्

1.60.19

एकैकं बाहुयुग्मे तु एकैक हस्तयोर्द्वयोः ।
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत्

1.60.20

ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत् ।
नक्षत्राणि च शेषाणि रविपादे नियोजयेत्

1.60.21

चरणस्येन ऋक्षेण अल्पायुर्जायते नरः ।
विदशगमनं जानौ गुह्यस्थे परदारवान्

1.60.22

नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः ।
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्धज

1.60.23

स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात् ।
मस्तके पदृवस्त्रं स्यान्नक्षत्रं यदि स्थितम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc