गरुड़ पुराण · अध्याय 1.59
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशनिरूपणं नामाष्टपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 59
(अथ ज्योतिः शास्त्रम्)
सूत उवाच ।
ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः ।
चतुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्वदः
हरिरुवाच ।
कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः ।
इल्वलाः सोमदेवत्या रौद्रं चार्द्रमुदाहृतम्
पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः ।
अश्लेषाः सर्पदेवत्या मघाश्च पितृदेवताः
भाग्याश्च पूर्वफल्गुन्य अर्यमा च तथोत्तरः ।
सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्तितः
स्वाती च वायुदेवत्या नक्षत्रं परिकीर्तितम् ।
इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज
मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्तितम् ।
तथा निरृतिदेवत्यो मूलस्तज्ज्ञैरुदाहृतः
आप्यास्त्वाषाठपूर्वास्तु उत्तरा वैश्वदेवताः ।
ब्राह्मश्चैवाभिजित्प्रोक्तः श्रवणा वैष्णवः स्मृतः
वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ।
तथा शतभिषा प्रोक्तं नक्षत्रं वारुणं शिव
आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा ।
पौष्णं च रेवती ऋक्षमश्वयुक्चाश्वदैवतम्
भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः ।
ब्रह्माणी संस्थिता पूर्वे प्रितपन्नवमीतिथौ
माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ ।
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता
षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ।
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे
अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे ।
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी
द्वादश्यां च चतुर्थ्यां तु कौमारी नैरृते तथा ।
योगिनीसुंमुखेनैव गमनादि न कारयेत्
अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु ।
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते
हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च ।
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसू
वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः ।
कृत्तिका भरण्यश्लेषा मघा मूलविशाखयोः
त्रीणि,पूर्वा तथा चैव अधोवक्राः प्रकीर्तिताः? ।
एषु वापीतडागादिकूपभूमितृणानि च
देवागारस्य खननं निधानखननं तथा ।
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम्
कुर्यादधोगतान्येव अन्यानि च वृषध्वज ।
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसू
अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः ।
गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च
बीजानां वपनं कुर्याद्गमनागमनादिकम् ।
चक्रयन्त्ररथानां च नावादीनां प्रवाहणम्
पार्श्वेषु यानि कर्माणि कुर्यादेतेषु तान्यपि ।
रोहिण्यार्द्रां तथा पुष्या धनिष्ठा चोत्तरात्रयम्
वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ।
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत्
ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत् ।
चतुर्थो चाशुभा षष्ठी अष्टमी नवमी तथा
अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी ।
अशुक्ला प्रतिपच्छ्रेष्ठा द्वितीया चन्द्र सूनुना
तृतीया भूमिपुत्रेण चतुर्थो च शनैश्चरे ।
गुरौ शुभा पञ्चमी स्यात्षष्टीमङ्गलशुक्रयोः
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ ।
नवमी चन्द्रवा(सौ) रेण दशमी तु गुरौ शुभा
एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः ।
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ ।
द्वादशीं दहते भानुः शशी चैकादशीं दहेत्
कुजो दहेच्च दशामीं नवमीं च बुधो दहेत् ।
अष्टमीं दहते जीवः सप्तमीं भार्गवो दहेत्
सूर्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै ।
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च
बुधवारेण प्रस्थानं दूरतः परिवर्जयेत् ।
मेषे कर्कटके षष्ठी कन्यायां मिथुने ऽष्टमी
वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले ।
दशमी वृश्चिके सिंहे धनुर्मोने चतुर्दशी
एता दग्धा न गन्तव्यं पीडादिः किल मानवैः ।
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी
धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम् ।
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव
शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम् ।
एषु योगेषु चोत्पातमृत्युरोगादिकं भवेत्
मूलेर्ऽकः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः ।
कृत्तिकासु बुधश्चैव गुरौ रुद्र पुनर्वसुः
पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे ।
एतै चामृतयोगाः स्युः सर्वकार्यप्रसाधकाः
कालं प्रवध्यन्नि?शक्तिदा? नेष्टमन्द? ।
पर्वादिस्तु ज्ञेयः कालः कालविशारदैः
एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः ।
भागे द्विशेषे स्त्रीनाशः पुसः स्यादेकशून्ययोः
विष्कम्भे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः ।
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः
व्यतीपाते च परिघे वैधृते च दिनेदिने ।
एतै मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत्
हस्तेर्ऽकश्च गुरुः पुष्ये अनुराधा बुधे शुभा ।
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम्
शुक्रे च रेवती श्रेष्ठा अश्विनी मङ्गले शुभा ।
एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः
भार्गवे भपरणी चैव सोमे चित्रा वृषध्वज ! ।
भौमे चै वोत्तराषाढा धनिष्ठा च बुधे हर !
गरौ शतभिषा रुद्र ! शुक्रे वै रोहिणी तथा ।
शनौ च रेवती शम्भो ! विषयोगाः प्रकीर्तिताः
पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह ।
श्रवणं च धनिष्ठा च हस्ताश्वनीमृगास्तथा
कुर्याच्छतभिषायां च जातकर्मादि मानवः ।
विशाखा चोत्तरात्रीणि मघार्द्रा भरणी तथा ।
आश्लेषा कृत्तिका रुद्र ! प्रस्थाने मरणप्रदाः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0