भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.6

1.6.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमो ऽध्यायः
श्रीगरुडमहापुराणम्- 6
हरिरुवाच ।
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः ।
सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम्

1.6.2

मुनिप्रसादादाराध्य देवदेवं जनार्दनम् ।
ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः

1.6.3

तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः ।
दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः

1.6.4

रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः ।
रुरुस्तस्य सुतः श्रीमानङ्गस्तस्यापि चात्मजः

1.6.5

अङ्गस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः ।
अधर्ंमकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः

1.6.6

ऊरुं ममन्थुः पुत्रार्थे ततो ऽस्य तनयो ऽभवत् ।
ह्रस्वो ऽतिमात्रः कृष्णाङ्गो निषीदेति ततो ऽब्रुवन्

1.6.7

निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः ।
ततो ऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः

1.6.8

तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक् ।
पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ

1.6.9

दुदोह पृथिवीं राजा प्रजानां जीवनाय हि ।
अन्तर्धानः पृथोः पुत्रो तहविर्धानस्तदात्मजः

1.6.10

प्राचीनवहर्स्तेत्पुत्रः पृथिव्यामेकराड् बभौ ।
उपयेमे समुद्रस्य लवणस्य स वै सुताम्

1.6.11

तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः

1.6.12

अपृथगधर्ंमचरणास्ते ऽतप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः

1.6.13

प्रजापतित्वं संप्राप्य भार्या तेषां च मारिष ।
अभवद्धवशापेन तस्यां दक्षो ऽभवत्ततः

1.6.14

असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्वोधाः ।
नावर्धन्त च तास्तस्य अपध्याता हरेण तु

1.6.15

मैथुनेन ततः सृष्टिं कर्तुमैच्छत्प्रजापतिः ।
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः

1.6.16

तस्य पुत्रसहस्रं तु वैरण्यां समपद्यत ।
नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः

1.6.17

दक्षपुत्रसहस्रं च तेषु नष्टेषु सृष्टवान् ।
शवलाश्वास्ते ऽपि गता भ्रातॄणां पदवीं हर !

1.6.18

दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि ।
नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः

1.6.19

यज्ञे ध्वस्ते ऽथ दक्षो ऽपि शशाप्रोग्रं महेश्वरम् ।
स्तुत्वात्वामुपचारैश्च पूजयिष्यन्ति शङ्कर

1.6.20

जन्मान्तरे ऽपि वैरेण ते विनश्यन्ति शङ्कर ! ।
तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ।
असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ

1.6.21

षष्टिं कन्या रूपयुता द्वे चैवाङ्गिरसे ददौ ।
द्वे प्रादात्स कृशाश्वाय दश धर्ंमाय चाप्यथ

1.6.22

चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे ।
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा

1.6.23

मनोरमां भानुमतीं विशालां बहुदामथ ।
दक्षः प्रादान्महादेव ! चतस्रो ऽरिष्टनेमये (ने)

1.6.24

स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम् ।
अरुन्धती वसुर्यार्(जा) मी लम्बा भानुर्मरुद्वती

1.6.25

सङ्कल्पा च मुहूर्ता च साध्या विश्वा च ता दश ।
धर्ंमपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम्

1.6.26

अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः ।
कद्रूः साध्या हरा क्रोधा विनता सुरभिः खगा

1.6.27

विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा

1.6.28

भानोस्तु भानवो रुद्र ! मुहूर्ताच्च मुहूर्तजाः ।
लम्बायाश्चैव घोषो ऽथ नागवीथिस्तु या (जा) मितः

1.6.29

पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत ।
सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि

1.6.30

आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः

1.6.31

आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः

1.6.32

सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रुहिणो हुतहव्यवहस्तथा

1.6.33

मनोहरायां शिशिरः प्राणो ऽथ रमणस्तथा ।
अनिलस्य शिवा भार्या तस्याः पुत्रः पुलोमजः

1.6.34

अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत्

1.6.35

तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः ।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः

1.6.36

प्रत्युषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम् ।
विश्वकर्ंमा प्रभासस्य विख्यातो देववर्धकिः

1.6.37

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः

1.6.38

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दे रैवतस्तथा

1.6.39

मृगव्याधश्च शर्वश्च कपाली च महामुने ! ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः

1.6.40

अदित्यां कश्यपाच्चैव सूर्या द्वादश जज्ञिरे ।
विष्णुः शक्रोर्ऽय्यमा धाता त्वष्टा पूषा तथैव च

1.6.41

विवस्वान्सविता चैव मित्रो वरुण एव च ।
अशुमांश्च भगश्चैव आदित्या द्वादश स्मृताः

1.6.42

सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः ।
हिरण्यकशिपुर्दित्यां हिरण्याक्षो ऽभवत्तदा

1.6.43

सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा ।
हिरण्यकशिपोः पुत्राश्चत्वारः पृथुलौजसः

1.6.44

अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् ।
संह्रादश्चावमस्तेषां प्रह्रादो विष्णुतत्परः

1.6.45

संह्रादपुत्र आयुष्माञ्छिबिर्वाष्कल एव च ।
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात्

1.6.46

बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज ! ।
हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः

1.6.47

उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानागो महाबाहुः कालनाभस्तथापरः

1.6.48

अभवन्दनुपुत्राश्च द्विमूर्धा शङ्करस्तथा ।
अयोमुखः शङ्कुशिराः कपिलः शम्बरस्तथा

1.6.49

एकचक्रो महाबाहुस्तारकश्च महाबलः ।
स्वर्भानुर्वृषपर्वा च पुलोमा च महासुरः

1.6.50

एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान् ।
स्वर्भानोः सुप्रभा कन्या शर्मिष्ठा वार्षपर्वणी

1.6.51

उपदानवी हयशिराः प्रख्याता वरकन्यकाः ।
वैश्वानरसुते चोभे पुलोमा कालका तथा

1.6.52

उभे ते तु महाभागे मारीचेस्तु परिग्रहः ।
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाः

1.6.53

पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः ।
सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा

1.6.54

व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः ।
वातापिर्नमुचिश्चैव इल्वलः खसृमांस्तथा

1.6.55

अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च ।
निवातकवचा दैत्याः प्रह्रादस्य कुले ऽभवन्

1.6.56

षट् सुताश्च महासत्त्वास्ताम्रायाः परिकीर्तिताः ।
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिके

1.6.57

शुकी शुकानजनयदुलूकी प्रत्यलूककान् ।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि

1.6.59

शुक्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत ।
(अश्वानुष्टान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥ गर्प्_1,6. 58 ॥)
विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ ।
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम्

1.6.60

काद्रवेयाश्च फणिनः सहस्रममितौजसः ।
तेषा प्राधाना भूतेश ! शेषवासुकितक्षकाः

1.6.61

शङ्खः श्वेतो महापद्मः (शङ्खः) कम्बलाश्वतरौ तथा ।
एलापत्रस्तथा नागः कर्कोटकधनञ्जयौ

1.6.62

गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः ।
क्रोधा तु जनयामास पिशाचांश्च महाबलान्

1.6.63

गास्तु वै जनयामास सुरभिर्महिषांस्तथा ।
इरा वृक्षलताबल्लीस्तृणजातीश्च सर्वशः

1.6.64

खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा ।
अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत्

1.6.65

देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति ।
एकज्यो तिश्च द्विर्ज्योतिचतुर्ज्योतिस्तथैव च

1.6.66

एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ।
ईदृक् सदृक् तथान्यादृक् ततः प्रतिसदृक् तथा

1.6.67

मितश्च समितश्चैव सुमितश्च महाबलः ।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा

1.6.68

अतिमित्रो ऽप्यमित्रश्च दूरमित्रो ऽजितस्तथा ।
ऋतश्च ऋतधर्ंमा च विहर्ता वरुणो (चमसो) ध्रुवः

1.6.69

विधारणश्च दुर्मेधा अयमेकगणः स्मृतः ।
ईदृशश्च सदृक्षश्च एतादृक्षो मिताशनः

1.6.70

एतेनः प्रसदृक्षश्च सुरतश्च महातपाः ।
हेतुमान्प्रसवस्तद्वत्सुरभश्च महायशाः

1.6.71

नादिरुग्रो ध्वनिर्भासो बिमुक्तो विक्षिपः सहः ।
द्युतिर्वसुरनाधृष्यो लाभ कामो जयी विराट्

1.6.72

उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे ।
एतत्सर्वं हरे रूपं राजानो दानवाः सुराः

1.6.73

सूर्यादि परिवारेण मन्वाद्या ईजिरे हरिम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc