भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.5

1.5.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थो ऽध्यायः
श्रीगरुडमहापुराणम्- 5
इरिरुवाच ।
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम् ।
अथामृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः

1.5.2

धर्मं रुद्रं मनुं चैव सनकं च सनातनम् ।
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च

1.5.3

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा

1.5.4

अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः ।
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्जितान्

1.5.5

चतुरो मूर्तियुक्तांश्च अङ्गुष्ठाद्दक्षमीश्वरम् ।
वामां गुष्ठात्तस्य भार्यामसृजत्पद्मसम्भवः

1.5.6

तस्यां तु जनयामास दक्षो दुहितरः शुभाः ।
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान्

1.5.7

रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः ।
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम्

1.5.8

भृगोर्धाताविधातारौ जनयामास सा शुभा ।
श्रियं च जनयामास पत्नी नारायणस्य या

1.5.9

तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम् ।
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः

1.5.10

धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ।
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः

1.5.11

पत्नि मरीचेः सम्भूतिः पौर्णमासमसूयत ।
विरजाः सर्वगश्चैव तस्य पुत्रौ महात्मनः

1.5.12

स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा ।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा

1.5.13

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम्

1.5.14

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतो ऽभवत् ।
कर्ंमशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम्

1.5.15

क्षमा तु सुषुवे भार्या पुलहस्य प्रिजापतेः ।
क्रतोश्च सुमतिर्भार्या बालखिल्यानसूयत

1.5.16

षष्टिर्यानि सहस्राणि ऋषीणामूर्धरेतसाम् ।
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम्

1.5.17

ऊर्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः ।
रजोगात्रोर्धबाहुश्च शरणश्चानघस्तथा

1.5.18

सुतपाः शुक्र इत्येते सर्वे सप्तर्षयो ऽमलाः ।
स्वाहां प्रादात्स दक्षो ऽपि शशरीराय वह्नये

1.5.19

तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो हर ! ।
फावकं पवमानं च शुचिं चापि जलाशिनः

1.5.20

पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा ।
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः

1.5.21

मैनाकं जनयामास गौरीं पूर्वं तु या सती ।
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायंभुवं प्रभुः

1.5.22

आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर ! ।
शतरूपां च तां नारीं तपोनिहतकल्मषाम्

1.5.23

स्वायम्भुवो मनुर्देवः पत्नित्वे जगृहे विभुः ।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत

1.5.24

प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञेते ।
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ

1.5.25

प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे ।
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः

1.5.26

अभवन्द्वादश सुता यामा नाम महाबलाः ।
चतुर्वोशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः

1.5.27

श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिरृद्धिः कीर्तिस्त्नयोदशी

1.5.28

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः ।
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा

1.5.29

सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।
भृघुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः

1.5.30

पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम्

1.5.31

ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम्

1.5.32

सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ।
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च

1.5.33

बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत

1.5.34

सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः ।
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते

1.5.35

ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः ।
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः

1.5.36

भार्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना ।
अनाहूता सती प्राप्ता दक्षेणैवावमानिता

1.5.37

त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात् ।
शम्भोर्भार्याभवद्रौरी तस्यां जज्ञे विनायकः

1.5.38

कुमारश्चैव भृङ्गीशः क्रुद्धो रुद्रः प्रतापवान् ।
विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक् ।
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc