भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.58

1.58.1

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 58
हरिरुवाच ।
वक्ष्ये प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे ।
योजानानां सहस्राणि भास्करस्य रथो नव

1.58.2

ईषादण्डस्तथैवास्य द्विगुणो वृषभध्वज ।
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि च

1.58.3

योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ।
त्रिनाभिमति पञ्चारे षण्नेमिन्यक्षयात्मके

1.58.4

संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ।
चत्वारिंशत्सहस्राणि द्वितीयो ऽक्षो विवस्वतः

1.58.5

पञ्चान्यानि तु सार्धानि स्यन्दनस्य वृषध्वज ।
अक्षप्रमाणमुभयोः प्रमाणं तु युगार्धयोः

1.58.6

ह्रस्वो ऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य वै ।
द्वितीये ऽक्षे तु तच्चक्रं संस्थितं मानसाचले

1.58.7

गायत्त्री सबृहत्युष्णिग्जगतीत्रिष्टुबेव च ।
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः

1.58.8

धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा ।
रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैत्रमासके

1.58.9

अर्यमा पुलहश्चैव रथोजाः पुञ्जिकस्थला ।
प्रहेतिः कच्छनीरश्च नारदश्चैव माधवे

1.58.10

मित्रो ऽत्रिस्तक्षको रक्षः पौरुषेयो ऽथ मेनका ।
हाहा रथस्वनश्चैव ज्येष्ठे भानो रथे स्थिताः

1.58.11

वरुणो वसिष्ठो रम्भा सहजन्या कुहूर्बुधः ।
रथचित्रस्तथा शुक्रो वसन्त्याषाढसंज्ञिते ।

1.58.12

इन्द्रो विश्वावसुः स्रोत(श्रोत्र) एलापत्रस्तथाङ्गिराः ।
प्रम्लोचा च नभस्येते सर्पाश्चार्के तु सन्ति वै

1.58.13

विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा ।
अनुम्लोचाशङ्खपालौ व्याघ्रो भाद्रपदे तता

1.58.14

पूषा च सुरुचिर्धाता गौतमो ऽथ धनञ्जयः ।
सुषेणो ऽन्यो धृताची च वसन्त्याश्वयुजे रवौ

1.58.15

विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा ।
विश्वाची सेनजिच्चापः (पि) कार्तिके चाधिकारिणः

1.58.16

अंशुश्च काश्यपस्तार्क्ष्यो महापद्मस्तथोर्वशी ।
चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः

1.58.17

क्रतुर्भर्गस्तथोर्णायुः स्फूर्जः कर्कोटकस्तथा ।
अरिष्टनेमिश्चैवान्या पूर्वचित्तिवर्रात्सराः ।
पौषमासे वसन्त्येते सप्त भास्करमण्डले

1.58.18

त्वष्टाथ जमदग्निश्च कम्बलो ऽथ तिलोत्तमा ।
ब्रह्मापेतो ऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः ।
माघमासे वसन्त्येते सप्त भास्करमण्डले

1.58.19

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रस्तथा रक्षो यज्ञापेतो हि फाल्गुने

1.58.20

सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः ।
स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गोयते पुरः

1.58.21

नृत्यन्त्यो ऽप्सरसो यान्ति सूर्यस्यानुनिशाचराः ।
वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः

1.58.22

बालखिल्यास्तथैवैनं परिवार्य समासते ।
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः

1.58.23

वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।
वार्य (य्व) ग्रनिद्रव्यसम्भूतो रथश्चन्द्रसुतस्यच

1.58.24

पिशङ्गेस्तुरगैर्युक्तः सो ऽष्टाभिर्वायुवेगिभिः ।
सवरूथः सानुकर्षो युक्तो भूमिभवैर्हयैः

1.58.25

सोपासंगपताकस्तु शुक्रस्यापि रथो महान् ।
रथो भूमिसुतस्यापि तप्तकाञ्चनसन्निभः

1.58.26

अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान्

1.58.27

पद्मरागारुणैरश्वैः संयुक्तो वह्निसंभवैः ।
अष्टाभिः पाण्डरैर्युक्तैर्वाजिभिः काञ्चने रथे

1.58.28

तिष्ठंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः ।
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम्

1.58.29

समारुह्य शनैर्याति मन्दगामी शनैश्चरः ।
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम्

1.58.30

सकृद्यक्तास्तु भूतेशबहन्त्यविरतं शिव ।
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः

1.58.31

पलालधूमवर्णाभा लाक्षारसनिभारुणाः ।
द्वीपनद्यद्रयुदन्वन्तो भुवनानिहरेस्तनुः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc