गरुड़ पुराण · अध्याय 1.57
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 57
हरिरुवाच ।
सप्ततिस्तु सहस्राणि भूम्युच्छ्रायो ऽपि कथ्यते ।
दशसाहस्रमेकैकं पातालं वृषभध्वज
अतलं वितलं चैव नितलं च गभस्तिमत् ।
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम्
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना ।
भूयस्तत्र दैतेया वसन्ति च भुजङ्गमाः
रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु ।
रौरवः सूकरो रोधस्तालो विनशनस्तथा
महाज्वालस्तप्तकुम्भो लवणो ऽथि विमोहितः ।
रुधिराख्यो वैतरणी कृमिशः कृमिभो जनः
असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः ।
तथा पूयवहः पापो वह्निज्वालस्त्वधः शिराः
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ।
श्वभोजनो ऽथाप्रतिष्ठोष्णवीचिर्नरकाः स्मृताः
पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः ।
उपर्युपरि वै लोका रुद्र ! भूतादयः स्थिताः
वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत् ।
तदण्डं महता रुद्र ! प्रधानेन च वेष्टितम्
अण्डं दशगुणं व्याप्तं नारायणः स्थितः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0