गरुड़ पुराण · अध्याय 1.56
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 56
हरिरुवाच ।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य च ।
ज्येष्ठः शान्तभवो नाम शिशिरस्तदन्तरः
सुखोदयस्तथा नन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।
सोमकः सुमनाः शैलो बैभ्राजश्चात्र सप्तमः
अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः
वपुष्माञ्छाल्मलस्येशस्तत्सुता वर्षनामकाः ।
श्वेतो ऽथ हरितश्चैव जीमूतो रोहितस्तथा
वैद्युतो मानसश्चैव सप्रभशाचपि सप्तमः ।
कुमुदश्चोन्नतो द्रोणो महिषो ऽथ बलाहकः
क्रौञ्चः ककुद्मान्ह्येते वै गिरयः सरितस्त्विमाः ।
योनितोया वितृष्णा च चन्द्रा शुक्ल विमोचनी
विधृतिः सप्तमी तासां स्मृताः पापप्रशान्तिदाः ।
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्वतान्
उद्भिदो वेणुमांश्चैव द्वैरथो लम्बनो धृतिः ।
प्रभाकरो ऽथ कपिलस्तन्नामा वर्षपद्धतिः
विद्रुमो हेमशैलश्च द्युतिमान्पुष्पवांस्तथा ।
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः
धूतपापा शिवा चैव पवित्रा सन्मतिस्तथा ।
विद्युदभ्रा मही चान्या सर्वपापहरास्त्विमाः
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ।
कुशलो मन्दगश्चोष्णः पीवरो ऽथोन्धकारकः
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता हर ।
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध (थ) कारकः
दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान् ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ।
शाकद्वीपेश्वराद्भव्यात्सप्त पुत्राः प्रजज्ञिरे
जलद्श्च कुमारश्च सुकुमारोरुणी बकः ।
कुसुमोदः समोदार्किः सप्तमश्च महाद्रुमः
सुकुमारी कुमारी च नलिनी धेनुका च या ।
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा
शबलात्पुष्करेशाच्च महावीरश्च धातकिः ।
अभूद्वर्षद्वयं चैव मानसोत्तरपर्वतः
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावच्चैव च विस्तीर्णः सर्वतः परिमण्डलः
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ।
स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ।
लोकालोकस्ततः शैलो योजनायुताविस्तृतः ।
तमसा पर्वतो व्याप्तस्तमो ऽप्यण्डकटाहतः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0